Followers

Monday, September 28, 2015

Sri Lakshmi Narasimha Suprabatham (Lakshmi stotra.11)





Sri Lakshmi Narasimha Suprabatham (YADGIRI)(Lakshmi stotra 11)&Narasingh stotra.  )

https://youtu.be/oMpbUvK7BIM

॥ श्रीलक्ष्मी नरसिंह सुप्रभातस्तोत्रम् (यादगिरि) ॥
https://youtu.be/UYMKIH75zP4
 
==
 । श्री यादगिरि लक्ष्मीनृसिंह सुप्रभातम्
श्री वङ्गीपुरम् नरसिंहाचार्यरचित ।
कौसल्या सुप्रजा राम पूर्वा सन्ध्या प्रवर्तते ।
उत्तिष्ठ नरशार्दूल! कर्तव्यं दैवमाह्निकम् ॥ १॥

उत्तिष्ठोत्तिष्ठ गोविन्द उत्तिष्ठ गरुडध्वज ।
उत्तिष्ठ कमलाकान्त त्रैलोक्यं मङ्गळं कुरु ॥ २॥

यादाद्रिनाथशुभमन्दिरकल्पवल्लि
पद्मालये जननि पद्मभवादिवन्द्ये ।
भक्तार्तिभञ्जनि दयामयदिव्यरूपे
लक्ष्मीनृसिंहदयिते तव सुप्रभातम् ॥ ३॥

ज्वालानृसिंह करुणामय दिव्यमूर्ते
योगाभिनन्दन नृसिंह दयासमुद्र! ।
लक्ष्मीनृसिंह शरणागतपारिजात
यादाद्रिनाथ नृहरे! तव सुप्रभातम् ॥ ४॥

श्रीरङ्गवेङ्कटमहीधरहस्तिशैल
श्री यादवाद्रिमुखसत्त्वनिकेतनानि ।
स्थानानि तेकिल वदन्ति परावरज्ञाः
यादाद्रिनाथ नृहरे! तव सुप्रभातम् ॥ ५॥

ब्रह्मादयस्सुरवर मुनिपुङ्गवाश्च
त्वां सेवितुं विविधमङ्गळवस्तुहस्ताः ।
द्वारे वसन्ति नरसिंह भवाब्धिपोत
यादाद्रिनाथ नृहरे! तव सुप्रभातम् ॥ ६॥

प्रह्लाद नारद पराशर पुण्डरीक
व्यासादिभक्तरसिका भवदीयसेवाम् ।
वाञ्छन्त्यनन्यहृदया करुणासमुद्र
यादाद्रिनाथ नृहरे! तव सुप्रभातम् ॥ ७॥

त्वद्दास्यभोगरसिकाश्शठजिन्मुखार्याः
रामानुजादिमहनीयगुरुप्रधानाः ।
सेवार्थ मत्र भवदीयगृहाङ्गणस्थाः
यादाद्रिनाथ नृहरे! तव सुप्रभातम् ॥ ८॥

भक्ता स्त्वदीयपदपङ्कजसक्तचित्ताः
काल्यं विधाय तवकन्दर मन्दिराग्रे ।
त्वद्दर्शनोत्सुकतया निबिडं श्रयन्ते
यादाद्रिनाथ नृहरे! तव सुप्रभातम् ॥ ९॥

दिव्यावतारदशके नरसिंह ते तु
दिव्यावतारमहिमा नहि देवगम्यः ।
प्रह्लाददानवशिशोःकिल भक्तिगम्यः
यादाद्रिनाथ नृहरे! तव सुप्रभातम् ॥ १०॥

श्रीयादवाद्रिशिखरे त्वमहोबिलेऽपि
सिंहाचले च शुभमङ्गळशैलराजे ।
वेदाचलादि गिरि मूर्धसु सुस्थितोसि
यादाद्रिनाथ नृहरे! तव सुप्रभातम् ॥ ११॥

काम्यार्थिनो वरदकल्पक कल्पकं त्वां
सेवार्थिनः स्सुजनसेव्यपदद्वयं त्वाम् ।
भक्त्या विनम्र शिरसा प्रणमन्ति सर्वे
यादाद्रिनाथ नृहरे! तव सुप्रभातम् ॥ १२॥

त्वन्नाममन्त्रपठनेन लुठन्ति पापाः
त्वन्नाममन्त्रपठनेन लुठन्ति दैत्याः ।
त्वन्नाममन्त्रपठनेन लुठन्तिरोगाः
यादाद्रिनाथ नृहरे! तव सुप्रभातम् ॥ १३॥

लक्ष्मीनृसिंह! जगदीश! सुरेश! विष्णो
जिष्णो! जनार्दन! परात्पर विश्वरूप ।
विश्वप्रभातकरणाय कृतावतार
यादाद्रिनाथ नृहरे! तव सुप्रभातम् ॥ १४॥

त्वन्नाममन्त्र पठनंकिलसुप्रभातं
अस्माकमस्तु तवचास्तु च सुप्रभातम् ।
अस्मत्समुद्धरणमेव विचित्रगाध
यादाद्रिनाथ नृहरे! तव सुप्रभातम् ॥ १५॥

त्वत् पूजका परिव्रुढा परिचारकाश्च
नित्यार्चनाय विधिवद्विहित स्वक्रुत्याः ।
यत्तस्त्वदीय शुभगह्वर मन्दिराग्रे
यादाद्रिनाथ नृहरे! तव सुप्रभातम् ॥ १६॥

प्राभातकीमुपचितिम् परिकल्पयन्तः
कुण्डाश्च पूर्णजलकुम्भमुपाहरन्तः ।
श्रीवैष्णवाः समुपयान्तिहरे! नृसिंह
यादाद्रिनाथ नृहरे! तव सुप्रभातम् ॥ १७॥

सूर्योऽभ्युदेति विकसन्ति सरोरुहाणि
नीलोत्पलानि हि भवन्ति निमीलितानि ।
प्राग्दिङ्मुखेरुणगभस्तिगणोऽभ्युदेति
यादाद्रिनाथ नृहरे! तव सुप्रभातम् ॥ १८॥

मन्दानिलस्सुर नदीकमलोदरेशु
मन्दंविगाह्य शुभसौरभ मादधानः ।
हर्षप्रकर्षमुपयाति च सेवितुं त्वां
यादाद्रिनाथ नृहरे! तव सुप्रभातम् ॥ १९॥

तारागणोवियति मज्जति सुप्रभाते
सूर्येणसाकमवलोकयितुं त्वदीयम् ।
श्रीसुप्रभातमवभासित सर्वलोकं
यादाद्रिनाथ नृहरे! तव सुप्रभातम् ॥ २०॥

पक्षिस्वनाश्चपरितःपरिसम्पतन्ति
कूजन्तिकोकिलगणाःकलकण्ठरावैः ।
वाचा विशुद्धकलयानुवदन्तिकीराः
यादाद्रिनाथ नृहरे! तव सुप्रभातम् ॥ २१॥

पल्लीषु वल्लवजनाःस्वगृहाङ्गणेषु
धेनूर्दुहन्ति विनिभान्ति विशेषदृष्ट्या ।
गोपालबाल इव भक्तहृदम्बुजेषु
यादाद्रिनाथ नृहरे! तव सुप्रभातम् ॥ २२॥

गाढान्धकारपटलम् गगनञ्जहाति
मोहान्धकार इव सन्मनुजम् समस्तम् ।
रागोविराग इव संविशति प्रकामं
यादाद्रिनाथ नृहरे! तव सुप्रभातम् ॥ २३॥

निद्राजहाति हि जनान् सुमुनिं यधावत्
प्रज्ञाप्युदेति हि जनेषु मुनौयधावत् ।
सक्तिर्जनेषु हि यथा च मुनौविरक्तिः
यादाद्रिनाथ नृहरे! तव सुप्रभातम् ॥ २४॥

फुल्लानिपङ्कजवनानि विशुद्धसत्त्व
फुल्लानि सज्जनमनःकमलानि यद्वत् ।
भाश्शुद्धसत्वमिव भाति विदिक्षु दिक्षु
यादाद्रिनाथ नृहरे! तव सुप्रभातम् ॥ २५॥

ब्रह्मास्वयंसुरगणैस्सहलोकपालैः
धामप्रविश्य तव मण्डपगोपुराढ्यम् ।
पञ्चाङ्गशुद्धिमभिवर्णयति त्वदीयां
यादाद्रिनाथ नृहरे! तव सुप्रभातम् ॥ २६॥

विख्यातवैद्यजन वञ्चकरोगजाल
विख्यातवैद्य इति रोगनिपीडितास्त्वाम् ।
निश्चित्यधाम तव दूरत आपतन्ति
यादाद्रिनाथ नृहरे! तव सुप्रभातम् ॥ २७॥

भूतग्रहादि बलवत्तर तापयुक्ताः
बाणावतीमुख महोग्रपिशाच विद्धाः ।
स्नाताःप्रदक्षिणविधा वुपयान्तिनाथ
यादाद्रिनाथ नृहरे! तव सुप्रभातम् ॥ २८॥

सन्तानहीन वनितास्सरसि त्वदीये
स्नात्वाजलार्द्रवसनास्तव दर्शनाय ।
आयान्तिसन्ततिवरप्रद देवदेव
यादाद्रिनाथ नृहरे! तव सुप्रभातम् ॥ २९॥

यद्दुष्ट संहरणमुत्तमलोकरक्षा
दीक्षां व्यनक्ति तवरूप महोनृसिंह ।
तच्चात्र यादगिरिमूर्थनिसंविभाति
यादाद्रिनाथ नृहरे! तव सुप्रभातम् ॥ ३०॥

प्रह्लाद पुण्यजनि पुण्यबलात्प्रतीतं
रूपं जनस्तवहरे निगमान्तवेद्यम् ।
प्रातःस्मरंस्तरति संस्मारणाम्बुराशिं
यादाद्रिनाथ नृहरे! तव सुप्रभातम् ॥ ३१॥

श्रीसुप्रभातमिदमच्युतकैतवोक्त
मप्यच्युतं भवतुभक्तजनैकवेद्यम् ।
लक्ष्मीनृसिंह तव नामशुभप्रभावात्
यादाद्रिनाथ नृहरे! तव सुप्रभातम् ॥ ३२॥

इत्थं यादाद्रिनाथस्य सुप्रभात मतन्द्रिताः ।
ये पठन्ति सदा भक्त्या ते नरास्सुखभागिनः ॥ ३३॥

इति श्री लक्ष्मी नरसिंह सुप्रभातम् ।

ALSO SEE


Sri Lakshmi Narasimha Suprabatham Stotram



॥ श्रीयोगलक्ष्मीनरसिंह सुप्रभातम् ॥

                  चोलसिंहपुर
कौसल्या सुप्रजा राम! पूर्वा सन्ध्या प्रवर्तते ।
उत्तिष्ठ नरशार्दूल! कर्तव्यं दैवमाह्निकम् ॥ १॥

उत्तिष्ठोत्तिष्ठ गोविन्द! उत्तिष्ठ गरुडध्वज! ।
उत्तिष्ठ कमलाकान्त! त्रैलोक्यं मङ्गलं कुरु ॥ २॥

मातः सुधाफललते! महनीयशोभे!
     वक्षोविहाररसिके! नृहरेरजस्रम् ।
क्षीराम्बुराशितनये! श्रितकल्पवल्लि!
     श्रीमन्नृसिंहदयिते! तव सुप्रभातम् ॥ ३॥

तव सुप्रभात-मनवद्य-वैभवे!
     घटिकेश-सद्गुण-निवास-भूतले ।
घटिताखिलार्थ-घटिकाद्रिशेखरे
     घटिकाद्रिनाथ-दयिते! दयानिधे ॥ ४॥

अत्र्यादिका मुनिगणा विरचय्य सन्ध्यां
     दिव्यस्रवन्मधुझरीक सरोरुहाणि ।
पादार्पणाय परिगृह्य पुरः प्रपन्नाः
     श्रीमन्नृसिंह विजयीभव सुप्रभातम् ॥ ५॥

सप्तर्षिसङ्घकृत सस्तुति-सुप्रसन्न
     श्रीमन्नृसिंह गुणरूप रमामहीभ्याम् ।
साकं नृसिंहगिरि-सत्त्वकृताधिवास
     श्रीमन्नृसिंह! विजयीभव सुप्रभातम् ॥ ६॥

प्रह्लादरक्षण-निदान-कृतावतार!
     मुग्धस्वकीयनखरईः स्पुटितारिवक्षः ।
सर्वाभिवन्द्य-निजवैभव-चन्द्रकान्त!
     श्रीमन्नृसिंह विजयीभव सुप्रभातम् ॥ ७। ।

भक्तोचितादिसरसः सुगुणं प्रकृष्टं
     तीर्थं सुवर्णघट-पूरितमादरेण ।
धृत्वा श्रुतिप्रवचनैकपरा लसन्ति
     श्रीमन्नृसिंह! विजयीभव सुप्रभातम् ॥ ८। ।

संश्लाघनीय-परमोत्तर-रङ्गवासि-
     सूरि-स्तुति-प्रथितविग्रह-कान्तिकान्त!
सद्भिः-समर्चित-पदाम्बुज! साधुरक्षिन्
     श्रीमन्नृसिंह! विजयीभव सुप्रभातम् ॥ ९॥

तीर्थानि गोमुखगतान्यखिलानि धृत्वा
     भव्यानि भव्यनिकराः परितो लसन्ति ।
गायन्ति गानचतुराः तव दिव्यवृत्तं
     श्रीमन्नृसिंह! विजयीभव सुप्रभातम् ॥ १०॥

वाराणासी-प्रथित-विष्णुपदी-प्रयाग-
     विख्यात-विश्वनत-सद्घ्टिकाचलेन्द्र!
सम्प्रार्थितार्थ-परिदान-कृतैकदीक्ष!
     श्रीमन्नृसिंह! विजयीभव सुप्रभातम् ॥ ११॥

पार्श्वद्वयस्थित- रमामहिशोभमान!
     श्रीचोलसिंहपुर-भाग्यकृतावतार!
स्वामिन्! सुशील-सुलभाश्रितपारिजात!
      श्रीमन्नृसिंह! विजयीभव सुप्रभातम् ॥ १२॥

श्रीश्रीनिवास-घनदेशिकवर्य-भक्ति-
     संवर्धित-प्रतिदिनोत्सव-शोभमान ।
कल्याणचेल-कनकोज्ज्वलभूषणाढ्य!
    श्रीमन्नृसिंह! विजयीभव सुप्रभातम् ॥ १३॥

श्रीब्रह्मतीर्थतटमागतमञ्जनाभं
     देवं प्रणम्य वरदं घटिकाद्रिमेत्य ।
वाधूल-मानिधि-महागुरेष आस्ते
     श्रीमन्नृसिंह! विजयीभव सुप्रभातम् ॥ १४॥

आचार्यपूरुषवरा ह्यभिरामवृद्धा
     अर्हाभिपूज्यतर-मङ्गलवस्तुहस्ताः ।
त्वत्पादपङ्कज-सिषेविषया प्रपन्नाः
     श्रीमन्नृसिंह! विजयीभव सुप्रभातम् ॥ १५॥

श्रीमन्नृसिंह-गिरि-शेखर-सुप्रभातं
     ये मानवाः प्रतिदिनं पठितुं प्रवृत्ताः ।
तेभ्यः प्रसन्नवदनः कमलासहायः
     सर्वाणि वाञ्चितफलानि ददाति कामम् ॥ १६॥

  ॥ इति श्री योगलक्ष्मीनरसिंह्म सुप्रभातम् ॥

COMMENTS:-
This poem is addressed to Lord LakShmi Narasimha at the temple in
Cholasimhapuram - popularly known as Sholingapuram. The place is about
125 km. from Chennai, the capital of Tamilnadu state.  It is also known
as Ghatikachalam. The Lord has been sung by vaishnavite devotees known as
Alwars. There are two hills in the village. The taller one has the temple
of Shri LakShmi Narasimha.  On the smaller hill we can have the darshan of
Anjaneya. The village is surrounded by lush green forests which are said to
contains medicinal herbs. So, a stay in this place to have darshan of the
Lord is conducive to both spiritual and physical well-being.  It is said
that after the Lord appeared to cofirm His devotee Prahlada's assertion
that He is present every where and in everything and killed the demon
king Hiranyakashipu He was about to wind up the act.  The sages who were
assembled there to witness the unique event were immensely moved by Lord's
grace and His wonderful form . The Bhagavata Purana describes the form as
most wonderful.अदृश्यत अत्यद्भुतरूपं उद्वहन् स्तम्बे सभायां न
मृगं न मानुषम्। Please note the use of the word अत्यद्भुत रूपम्
᳚most wonderful᳚ to describe the form of Narasimha.  The Purana does not use
such an adjective to describe any other of Lord's avatara includong that of
Shri Krishna which the Purana covers at great length. Krishna, at His birth,
is described as just अद्भुतं बालकं (i.e.) wonderful child. This
shows the uniqness of Narasimha avatar. So, the sages who have the welfare
of others always in their heart requested the Lord to make available His
form for the benefit of all. The kindly Lord acceded to their request and
stayed in this place Sholingapuram. This is a place of pilgrimage and is
visited regularly by large number of people.
===============

No comments:

Post a Comment