Followers

Saturday, September 12, 2015

SHRI GANESHA ASHTAKAM (GANESHA PURANA)(Ganesh stotra.5)





SHRI GANESHA ASHTAKAM (GANESHA PURANA)(Ganesh stotra.5)

https://youtu.be/3w5iiimaXM0

=


 श्रीगणेशाष्टकम्
       (गणेशपुराणांतर्गतं)  
 यतोऽनंतशक्तेरनंताश्च जीवाः
यतो निर्गुणादप्रमेया गुणास्ते ।
यतो भाति सर्वं त्रिधाभेदभिन्नं
सदा तं गणेशं नमामो भजामः ॥ १ ॥
यतश्चाविरासीज्जगत्सर्वमेतत्
तथाब्जासनो विश्वगो विश्वगोप्ता ।
तथेन्द्रादयो देवसंघा मनुष्याः
सदा तं गणेशं नमामो भजामः ॥ २ ॥
यतो वह्निभानू  भवोभूर्जलं च
यतस्सागराश्चन्द्रमा व्योमवायुः ।
यतः स्थावरा जंगमा वृक्षसंघाः
सदा तं गणेशं नमामो भजामः ॥ ३ ॥
यतो दानवाः किन्नरा यक्षसंघाः
यतश्चारणा वारणाः श्वापदाश्च ।
यतः पक्षिकीटाः यतो वीरुधश्च
सदा तं गणेशं नमामो भजामः ॥ ४ ॥
यतो बुद्धिरज्ञाननाशो मुमुक्षो:
यतस्संपदो भक्तसंतोषिकाः स्युः ।
यतो विघ्ननाशो यतः कार्यसिद्धिः
सदा तं गणेशं नमामो भजामः  ॥ ५ ॥
यतो पुत्रसंपद्यतो वांछितार्थो
तोऽभक्तविघ्नास्तथानेकरूपाः ।
यतः शोमोहौ यतः काम एवं
सदा तं गणेशं नमामो भजामः ॥ ६ ॥
तोऽनंतशक्तिः स शेषो बभूव
धराधारणेनेकरूपे च शक्तः ।
तोनेकधा स्वर्गलोकाहि नानाः
सदा तं गणेशं नमामो भजामः ॥ ७ ॥
तो वेदवाचो विकुण्ठा मनोभिः
सदा नेति नेतीति यत्ता गृणन्ति ।
परब्रह्मरूपं चिदानन्दभूतं
सदा तं गणेशं नमामो भजामः ॥ ८ ॥
पुनरूचे गणाधीशः स्तोत्रमेतत्पठेन्नरः ।
त्रिसन्ध्यं त्रिदिनं तस्य सर्वं कार्यं भविष्यति ॥ ९ ॥
योपेदष्टदिवसं श्लोकाष्टकमिदं शुभम् ।
अष्टवारं चतुर्थ्यां तु सोऽष्टसिद्धीरवाप्नुयात् ॥ १० ॥
यः पठेन्मासमात्रन्तु दशवारं दिने दिने
मोयेद्बंधगतं राजवध्यं न संशयः ॥ ११ ॥
विद्याकामोभेद्विद्यां पुत्रार्थी पुत्रमाप्नुयात् ।
वांछितांल्लभते सर्वानेकविंशतिवारतः ॥ १२ ॥
योपेत्परयाभक्त्या गजाननपरोनरः ।
एवमुक्त्वा ततो देवश्चान्तर्धानं गतो प्रभुः ॥ १३ ॥
==

    


==
 

https://youtu.be/Atzqh5HdMzM


No comments:

Post a Comment