Followers

Sunday, September 13, 2015

GANADHIP STOTRAM(Ganesh stotra.16)








Ganadhip stotram (Ganesh stotra.16)

https://youtu.be/vAi_Se98giQ

==
गणाधिपस्तोत्रम् OF SANAKARACHARYA
 गणाधिपस्तोत्रम् OF SANAKARACHARYA
सरागिलोकदुर्लभं विरागिलोकपूजितम् ।
सुरासुरैर्नमस्कृतं जरादिमृत्युनाशकम् ।
गिरागुरुं श्रिया हरिं जयन्ति यत्पदार्चकाः ।
नमामि तं गणाधिपं कृपापयःपयोनिधिम् ॥ १ ॥
गिरीन्द्रजामुखाम्बुजप्रमोददानभास्करम् ।
करीन्द्रवक्त्रमानताघसंघवारणोद्यतम् ।
सरीसृपेशबद्धकुक्षिमाश्रयामि सन्ततम् ।
शरीरकान्तिनिर्जिताब्जबन्धुबालसन्ततिम् ॥ २ ॥
शुकादिमौनिवन्दितमं गकारवाच्यमक्षरम् ।
प्रकाशमिष्टदायिनं सकामनभ्रपङकये ।
चकासनं चतुर्भुजैर्विकासिपद्मपूजितम् ।
प्रकाशितात्मतत्त्वकं नमाम्यहं गणाधिपम् ॥ ३ ॥
नटाधिपत्वदायकं स्वरादिलोकदायकम् ।
जरादिरोगवारकं निराकृतासुरव्रजम् ।
कराम्बुजैरनसृणीन्विकारशून्यमानसैः ।
हृदा सदा विभावितं मुदा नमामि विघ्नपम् ॥ ४ ॥
श्रमापनोदनक्षमं समादितान्तरात्मना ।
समादिभिः सदार्चितं क्षमाविधिं गणाधिपम् ।
रमाधवादिपूजितं यमान्तकात्मसम्भवम् ।
शमादिषड्गुणप्रदं नमामि तं विभुतये ॥ ५ ॥
गणाधिपस्य पंचकं नृणामभीष्टदायकम् ।
प्रणामपूर्वकं जनाः पठन्ति ये मुदायताः ।
भवन्ति ते विदाम्पुरः प्रगतिवैभवाः जना ।
चिरायुषोऽधिकाः श्रियाः सुसूनवो न संशयः ॥ ६ ॥
॥ इति श्रीमच्छंकराचार्यकृतं गणाधिपस्तोत्रं संपूर्णम् ॥


No comments:

Post a Comment