Followers

Tuesday, September 22, 2015

RADHA STOTRA(BRAHMASESADIDEB KRIT)RADHA STOTRA.24




RADHA STOTRA(BRAHMASESADIDEB KRIT)RADHA STOTRA.24
॥ श्रीराधास्तोत्रं ब्रह्मेशशेषादिकृतम् ॥

॥ अथ ब्रह्मेशशेषादिकृतम् श्रीराधास्तोत्रम् ॥

षष्टिवर्षसहस्राणि दिव्यानि परमेश्वरि ।
पुष्करे च तपस्तप्तं पुण्यक्षेत्रे च भारते ॥ १ ॥

त्वत्पादपद्ममधुरमधुलुब्धेन चेतसा ।
मधुव्रतेन लोभेन प्रेरितेन मया सति ॥ २ ॥

तथापि न मया लब्धं त्वद्पादपदमीप्सितम् ।
न दृष्टमपि स्वप्नेऽपि जाता वागशरीरिणी ॥ ३ ॥

वाराहे भारते वर्षे पुण्ये वृन्दावने वने ।
सिद्धाश्रमे गणेशस्य पादपद्मं च द्रक्ष्यसि ॥ ४ ॥

राधामाधवयोर्दास्यं कुतो विषयिणस्तव ।
निवर्तस्व महाभाग परमेतत् सुदुर्लभम् ॥ ५ ॥

इति श्रुत्वा निवृत्तोऽहं कुतो विषयिणस्तव ।
निवर्तस्व महाभाग परमेतत् सुदुर्लभम् ॥ ६ ॥

श्रीमहादेव उवाच ।
पद्मैः पद्मार्चितं पादपद्मं यस्य सुदुर्लभम् ।
ध्यायन्ते ध्याननिष्टाश्च शश्वद् ब्रह्मादयः सुराः ॥ ७ ॥

मुनयो मनवश्चैव सिद्धाः सन्तश्च योगिनः ।
द्रष्टुं नैव क्षमाः स्वप्ने भवती तस्य वक्षसि ॥ ८ ॥

अनत उवाच ।
वेदाश्च वेदमाता च पुराणानि च सुव्रते ।
अहं सरस्वती सन्तः स्तोतुं नालं च सन्ततम् ॥ ९ ॥

अस्माकं स्तवने यस्य भ्रभङ्गश्च सुदुर्लभभः ।
तवैव भर्त्सने भीतश्चावयोरन्तरं हरिः ॥ १० ॥

॥ इति श्रीब्रह्मवैवर्ते ब्रह्मेशशेषादिकृतं
श्रीराधास्तोत्रं सम्पूर्णम् ॥

No comments:

Post a Comment