Followers

Wednesday, December 30, 2015

Surya Sahasranaam {1008 names }(surya stotra.12)






Surya Sahasranaam {1008 names by Rishi Ved Vyas}(surya stotra.12)

https://youtu.be/kNpg-FEJ23I


॥ श्रीसूर्यसहस्रनामस्तोत्रम् १ ॥

। अथ भविष्यपुराणान्तर्गत-सूर्यसहस्रनामस्तोत्रम् ।
ॐ विश्वजिद् विश्वजित्कर्ता विश्वात्मा विश्वतोमुखः ।
विश्वेश्वरो विश्वयोनिर्नियतात्मा जितेन्द्रियः ॥ १॥

कालाश्रयः कालकर्ता कालहा कालनाशनः ।
महायोगी महाबुद्धिर्महात्मा सुमहाबलः ॥ २॥

प्रभुर्विभुर्भूतनाथो भूतात्मा भुवनेश्वरः ।
भूतभव्यो भावितात्मा भूतान्तःकरणः शिवः ॥ ३॥

शरण्यः कमलानन्दो नन्दनो नन्दवर्धनः ।
वरेण्यो वरदो योगी सुसंयुक्तः प्रकाशकः ॥ ४॥

वाक्प्राणः परमः प्राणः प्रीतात्मा प्रियतः प्रियः ।
नयः सहस्रपात् साधुर्दिव्यकुण्डलमण्डितः ॥ ५॥

अव्यङ्गधारी धीरात्मा प्रचेता वायुवाहनः ।
समाहितमतिर्धाता विधाता कृतमङ्गलः ॥ ६॥

कपर्दी कल्पकृद्रुद्रः सुमना धर्मवत्सलः ।
समायुक्तो विमुक्तात्मा कृतात्मा कृतिनांवरः ॥ ७॥

अविचिन्त्यवपुः श्रेष्ठो महायोगी महेश्वरः ।
कान्तः कामादिरादित्यो नियतात्मा निराकुलः ॥ ८॥

कामः कारुणिकः कर्ता कमलाकरबोधनः ।
सप्तसप्तिरचिन्त्यात्मा महाकारुणिकोत्तमः ॥ ९॥

सञ्जीवनो जीवनाथो जगज्जीवो जगत्पतिः ।
अजयो विश्वनिलयः संविभागो वृषध्वजः ॥ १०॥

वृषाकपिः कल्पकर्ता कल्पान्तकरणो रविः ।
एकचक्ररथो मौनी सुरथो रथिनांवरः ॥ ११॥

अक्रोधनो रश्मिमाली तेजोराशिर्विभावसुः ।
दिव्यकृद् दिनकृद् देवो देवदेवो दिवस्पतिः ॥ १२॥

धीरानाथो हविर्होता दिव्यबाहुर्दिवाकरः ।
यज्ञो यज्ञपतिः पूषा स्वर्णरेताः परावहः ॥ १३॥

परापरज्ञस् तरणिरंशुमाली मनोहरः ।
प्राज्ञः प्रजापतिः सूर्यः सविता विष्णुरंशुमान् ॥ १४॥

सदागतिर्गन्धबाहुर्विहितो विधिराशुगः ।
पतङ्गः पतगः स्थाणुर्विहङ्गो विहगो वरः ॥ १५॥

हर्यश्वो हरिताश्वश्च हरिदश्वो जगत्प्रियः ।
त्र्यम्बकः सर्वदमनो भावितात्मा भिषग्वरः ॥ १६॥

आलोककृल्लोकनाथो लोकालोकनमस्कृतः ।
कालः कल्पान्तको वह्निस्तपनः सम्प्रतापनः ॥ १७॥

विरोचनो विरूपाक्षः सहस्राक्षः पुरन्दरः ।
सहस्ररश्मिर्मिहिरो विविधाम्बरभूषणः ॥ १८॥

खगः प्रतर्दनो धन्यो हयगो वाग्विशारदः ।
श्रीमांश्च शिशिरो वाग्मी श्रीपतिः श्रीनिकेतनः ॥ १९॥

श्रीकण्ठः श्रीधरः श्रीमान् श्रीनिवासो वसुप्रदः ।
कामचारो महामायो महेशो विदिताशयः ॥ २०॥

तीर्थक्रियावान् सुनयो विभवो भक्तवत्सलः ।
कीर्तिः कीर्तिकरो नित्यः कुण्डली कवची रथी ॥ २१॥

हिरण्यरेताः सप्ताश्वः प्रयतात्मा परन्तपः ।
बुद्धिमान् अमरश्रेष्ठो रोचिष्णुः पातशासनः ॥ २२॥

समुद्रो धनदो धाता मान्धाता कश्मलापहः ।
तमोघ्नो ध्वान्तहा वह्निर्होतान्तःकरणो गुहः ॥ २३॥

पशुमान् प्रयतानन्दो भूतेशः श्रीमतांवरः ।
नित्योऽदितो नित्यरथः सुरेशः सुरपूजितः ॥ २४॥

अजितो विजयो जेता जङ्गमस्थावरात्मकः ।
जीवानन्दो नित्यकामी विजेता विजयप्रदः ॥ २५॥

पर्जन्योऽग्निः स्थितिस्थेयः स्थविरोऽणुर्निरञ्जनः ।
प्रद्योतनो रथारूढः सर्वलोकप्रकाशकः ॥ २६॥

ध्रुवो मेधी महावीर्यो हंसः संसारतारकः ।
सृष्टिकर्ता क्रियाहेतुर्मार्तण्डो मरुताम्पतिः ॥ २७॥

मरुत्वान् दहनः स्पष्टा भगो भाग्योऽर्यमापतिः ।
वरुणांशो जगन्नाथः कृतकृत्यः सुलोचनः ॥ २८॥

विवस्वान् भानुमान् कार्यकारणं तेजसांनिधिः ।
असङ्गवामी तिग्मांशुर्धर्मादिर्दीप्तदीधितिः ॥ २९॥

सहस्रदीधितिर्भघ्नः सहस्रांशुर्दिवाकरः ।
गभस्तिमान् दीधितिमान् स्रग्विमान् अतुलद्युतिः ॥ ३०॥

भास्करः सुरकार्यज्ञः सर्वज्ञस् तीक्ष्णदीधितिः ।
सुरज्येष्ठः सुरपतिर्बहुज्ञोवचसाम्पतिः ॥ ३१॥

तेजोनिधिर्बृहत्तेजा बृहत्कीर्तिर्बृहस्पतिः ।
अहिमानूर्जितो धीमान् आमुक्तः कीर्तिवर्धनः ॥ ३२॥

महावैद्याग्रेणपतिर्गणेशो गणनायकः ।
तीव्रप्रतापनस् तापी तापनो विश्वतापनः ॥ ३३॥

कार्तस्वरो हृषीकेशः पद्मानन्दोऽभिनन्दितः ।
पद्मनाभोऽमृताहारः स्थितिमान् केतुमान् नभः ॥ ३४॥

अनाद्यन्तोऽच्युतो विश्वो विश्वामित्रो घृणी विराट् ।
आमुक्तः कवची वाग्मी कञ्चुकी विश्वभावनः ॥ ३५॥

अनिमित्तगतिः श्रेष्ठः शरण्यः सर्वतोमुखः ।
विगाहीरेणुरसहः समायुक्तः समाहितः ॥ ३६॥

धर्मकेतुर्धर्मरतिः संहर्ता संयमोयमः ।
प्रणतार्तिहरो वादी सिद्धकार्यो जनेश्वरः ॥ ३७॥

नभो विगाहनः सत्यः स्थामसः सुमनो हरः ।
हारी हरिर्हरो वायुरृतुः कालानलद्युतिः ॥ ३८॥

सुखसेव्यो महातेजा जगतामन्तकारणम् ।
महेन्द्रो विष्टुतः स्तोत्रं स्तुतिहेतुः प्रभाकरः ॥ ३९॥

सहस्रकल आयुष्मान् अरोषः सुखदः सुखी ।
व्याधिहा सुखदः सौख्यं कल्याणः कल्पिनांवरः ॥ ४०॥

आरोग्यकर्मणां सिद्धिर्वृद्धिरृद्धिरहस्पतिः ।
हिरण्यरेता आरोग्यं विद्वान् बन्धुर्बुधो महान् ॥ ४१॥

प्रणवान् धृतिमान् धर्मो धर्मकर्ता रुचिप्रदः ।
सर्वप्रियः सर्वसहः सर्वशत्रुनिवारुणः ॥ ४२॥

प्रांशुर्विद्योतनो द्योतः सहस्रकिरणः कृतिः ।
केयूरभूषणोद्भासी भासितो भासनोऽनलः ॥ ४३॥

शरण्यार्तिहरो होता खद्योतः खगसत्तमः ।
सर्वद्योतोऽमवद्द्योतः सर्वद्युतिकरोऽमलः ॥ ४४॥

कल्याणः कल्याणकरः कल्पः कल्पकरः कविः ।
कल्याणकृत् कल्पवपुः सर्वकल्याणभाजनः ॥ ४५॥

शान्तिप्रियः प्रसन्नात्मा प्रशान्तः प्रशमप्रियः ।
उदारकर्मा सुनयः सुवर्चा वर्चसोज्ज्वलः ॥ ४६॥

वर्चस्वी वर्चसामीशस् त्रैलोक्येशो वशानुगः ।
तेजस्वी सुयशावर्णिर्वर्णाध्यक्षो बलिप्रियः ॥ ४७॥

यशस्वी वेदनिलयस् तेजस्वी प्रकृतिस्थितः ।
आकाशगः शीघ्रगतिराशुगः श्रुतिमान् खगः ॥ ४८॥

गोपतिर्ग्रहदेवेशो गोमान् एकः प्रभञ्जनः ।
जनिताप्रजगण्डीवो दीपः सर्वप्रकाशकः ॥ ४९॥

कर्मसाक्षी योगनित्यो नभस्वान् असुरान्तकः ।
रक्षोघ्नो विघ्नशमनः किरीटी सुमनःप्रियः ॥ ५०॥

मरीचिमाली सुमतिः कृतातिथ्योऽविशेषतः ।
शिष्टाचारः शुभाकारः स्वाचारा चारतत्परः ॥ ५१॥

मन्दारो माठरो रेणुः क्षोभणः पक्षिणाङ्गुरुः ।
स्वविशिष्टो विशिष्टात्मा विधेयो ज्ञानशोभनः ॥ ५२॥

महाश्वेता प्रियो ज्ञेयः सामगो मोददायकः ।
सर्ववेदप्रगीतात्मा सर्ववेदो गयालयः ॥ ५३॥

वेदमूर्तिश्चतुर्वेदो वेदभृद् वेदपारगः ।
क्रियावान् अतिरोचिष्णुर्वरीयांश्च वरप्रदः ॥ ५४॥

व्रतधारी व्रतधरो लोकबन्धुरलङ्कृतः ।
अलङ्काराक्षरो दिव्यविद्यावान् विदिताशयः ॥ ५५॥

अकारो भूषणो भूष्यो भूष्णुर्भवनपूजितः ।
चक्रपाणिर्वज्रधरः सुवेशो लोकवत्सलः ॥ ५६॥

राज्ञीपतिर्महाबाहुः प्रकृतिर्विकृतिर्गुणः ।
अन्धकारापहः श्रेष्ठो युगावर्तो युगादिकृत् ॥ ५७॥

अप्रमेयः सदायोगी निरहङ्कार ईश्वरः ।
शुभप्रदः शुभशोभा शुभकर्मा शुभास्पदः ॥ ५८॥

सत्यवान् धृतिमान् अर्च्यो ह्यकारो वृद्धिदोऽनलः ।
बलभृद् बलगो बन्धुर्बलवान् हरिणांवरः ॥ ५९॥

अनङ्गोऽनागराणिन्द्रः पद्मयोनिर्गणेश्वरः ।
संवत्सर ऋतुर्नेता कालचक्रप्रवर्तकः ॥ ६०॥

पद्मेक्षरः पद्मयोनिः प्रभवोऽनसरद्युतिः ।
सुमूर्तिः सुमतिः सोमो गोविन्दो जगदादिजः ॥ ६१॥

पीतवासाः कृष्णवासा दिग्वासातीन्द्रियो हरिः ।
अतीन्द्रोऽनेकरूपात्मा स्कन्दः परपुरञ्जयः ॥ ६२॥

शक्तिमान् सूरधृग् भास्वान् मोक्षहेतुरयोनिजः ।
सर्वदर्शोऽदितो दर्शो दुःस्वप्नाशुभनाशनः ॥ ६३॥

माङ्गल्यकर्ता करणिर्वेगवान् कश्मलापहः ।
स्पष्टाक्षरो महामन्त्रो विशाखो यजनप्रियः ॥ ६४॥

विश्वकर्मा महाशक्तिर्ज्योतिरीशविहङ्गमः ।
विचक्षणो दक्ष इन्द्रः प्रत्यूहः प्रियदर्शनः ॥ ६५॥

अश्विनौ वेदनिलयो वेदविद् विदिताशयः ।
प्रभाकरो जितरिपुः सुजनोऽरुणसारथिः ॥ ६६॥

कुबेरसुरथः स्कन्दो महितोऽभिहितो गुहुः ।
ग्रहराजो ग्रहपतिर्ग्रहनक्षत्रमण्डनः ॥ ६७॥

भास्करः सततानन्दो नन्दनो नन्दिवर्धनः ।
मङ्गलोऽप्यथ मङ्गलवान् माङ्गल्योऽमङ्गलापहः ॥ ६८॥

मङ्गलाचारचरितः शीर्णः सर्वव्रतो व्रती ।
चतुर्मुखः पद्ममाली पूतात्मा प्रणतार्तिहा ॥ ६९॥

अकिञ्चनः सत्यसन्धो निर्गुणो गुणवान् गुणी ।
सम्पूर्णः पुण्डरीकाक्षो विधेयो योगतत्परः ॥ ७०॥

सहस्रांशुः क्रतुपतिः सर्वस्वं सुमतिः सुवाक् ।
सुभामनो माल्यदामा घृताहारो हरिप्रियः ॥ ७१॥

ब्रह्मप्रचेता प्रथितः प्रतीतात्मा स्थिरात्मकः ।
शतबिन्दुः शतमखो गरीयान् अनलप्रभुः ॥ ७२॥

धीरो महत्तरो धन्यः पुरुषः पुरुषोत्तमः ।
विद्याधराधिराजोऽहिविद्यावान् भूतिदस्थितः ॥७३॥

अनिर्देश्यवपुः श्रीमान् विश्वात्मा बहुमङ्गलः ।
सुस्थितः सुरथः स्वर्णो मोक्षाधारनिकेतनः ॥ ७४॥

निर्द्वन्द्वो द्वन्द्वहा सर्गः सर्वगः सम्प्रकाशयः ।
दयालुः सूक्ष्मरीः शान्तिः क्षेमाक्षेमस्थितिप्रियः ॥ ७५॥

भूतरो भूपतिर्वक्ता पवित्रात्मा त्रिलोचनः ।
महावराहः प्रियकृद् धाता भोक्ताभयप्रदः ॥ ७६॥

चतुर्वेदधरो नित्यो विनिद्रो विविधाशनः ।
चक्रवर्ती धृतिकरः सम्पूर्णोऽथ महेश्वरः ॥ ७७॥

विचित्ररथ एकाकी सप्तसप्तिः परात्परः ।
सर्वोदधिस्थितिकरः स्थितिस्थेयः स्थितिप्रियः ॥ ७८॥

निष्कलः पुष्करनिभो वसुमान् वासवप्रियः ।
वसुमान् वासवस्वामी वसुराता वसुप्रदः ॥ ७९॥

बलवान् ज्ञानवांस्तत्त्वम् ओङ्कारस् तृषुसंस्थितः ।
सङ्कल्पयोनिर्दिनकृद् भगवान् कारणावहः ॥ ८०॥

नीलकण्ठो धनाध्यक्षश्चतुर्वेदप्रियंवदः ।
वषट्कारो हुतं होता स्वाहाकारो हुताहुतिः ॥ ८१॥

जनार्दनो जनानन्दो नरो नारायणोऽम्बुदः ।
स्वर्णाङ्गक्षपणो वायुः सुरा सुरनमस्कृतः ॥ ८२॥

विग्रहो विमलो बिन्दुर्विशोको विमलद्युतिः ।
द्योतितो द्योतनो विद्वान् विविद्वान् वरदो बली ॥ ८३॥

धर्मयोनिर्महामोहो विष्णुभ्राता सनातनः ।
सावित्रीभावितो राजा विसृतो विघृणी विराट् ॥ ८४॥

सप्तार्चिः सप्ततुरगः सप्तलोकनमस्कृतः ।
सम्पन्नोऽथ जगन्नाथः सुमनाः शोभनप्रियः ॥ ८५॥

सर्वात्मा सर्वकृत् सृष्टिः सप्तिमान् सप्तमीप्रियः ।
सुमेधा माधवो मेध्यो मेधावी मधुसूदनः ॥ ८६॥

अङ्गिरा गतिकालज्ञो धूमकेतुसुकेतनः ।
सुखी सुखप्रदः सौख्यं कामी कान्तिप्रियो मुनिः ॥ ८७॥

सन्तापनः सन्तपन आतपी तपसाम्पतिः ।
उग्रश्रवा सहस्रोस्रः प्रियङ्कारो प्रियङ्करः ॥ ८८॥

प्रीतो विमन्युरम्भोदो जीवनो जगताम्पतिः ।
जगत्पिता प्रीतमनाः सर्वः शर्वो गुहावलः ॥ ८९॥

सर्वगो जगदानन्दो जगन्नेता सुरारिहा ।
श्रेयः श्रेयस्करो ज्यायानुत्तमोत्तम उत्तमः ॥ ९०॥

उत्तमोऽथ महामेरुर्धारणो धरणीधरः ।
धाराधरो धर्मराजो धर्माधर्मप्रवर्तकः ॥ ९१॥

रथाध्यक्षो रथपतिस् त्वरमाणोऽमितानलः ।
उत्तरोऽनुत्तरस् तापी तारापतिरपाम्पतिः ॥ ९२॥

पुण्यसङ्कीर्तनः पुण्यो हेतुर्लोकत्रयाश्रयः ।
स्वर्भानुर्विहगारिष्टो विशिष्टोत्कृष्टकर्मकृत् ॥ ९३॥

व्याधिप्रणाशनः क्षेमः शूरः सर्वजिताम्बरः ।
एकनाथो रथाधीशः शनैश्चरपितासितः ॥ ९४॥

वैवस्वतगुरुर्मृत्युर्धर्मनित्यो महाव्रतः ।
प्रलम्बहारः सञ्चारी प्रद्योतो द्योतितोऽनलः ॥ ९५॥

सन्तानकृत् परो मन्त्रो मन्त्रमूर्तिर्महाबलः ।
श्रेष्ठात्मा सुप्रियः शम्भुर्महतामीश्वरेश्वरः ॥ ९६॥

संसारगतिविच्छेता संसारार्णवतारकः ।
सप्तजिह्वः सहस्रार्ची रत्नगर्भोऽपराजितः ॥ ९७॥

धर्मकेतुरमेयात्मा धर्माधर्मवरप्रदः ।
लोकसाक्षी लोकगुरुर्लोकेशश् छन्दवाहनः ॥ ९८॥

धर्मरूपः सूक्ष्मवायुर्धनुष्पाणिर्धनुर्धरः ।
पिनाकधृन् महोत्साहो नैकमायो महाशनः ॥ ९९॥

वारः शक्तिमतांश्रेष्ठः सर्वशस्त्रभृतांवरः ।
ज्ञानगम्यो दुराराध्यो लोहिताङ्गोऽरिमर्दनः ॥ १००॥

अनन्तो धर्मदो नित्यो धर्मकृच्चित् त्रिविक्रमः ।
दैवत्रस् त्र्यक्षरो मध्यो नीलाङ्गो नीललोहितः ॥ १०१॥

एकोऽनेकस् त्रयीव्यासः सविता समितिञ्जयः ।
शार्ङ्गधन्वानलो भीमः सर्वप्रहरणायुधः ॥ १०२॥

परमेष्ठी परञ्ज्योतिर्नाकपाली दिवस्पतिः ।
वदान्यो वासुकिर्वैद्य आत्रेयोऽतिपराक्रमः ॥ १०३॥

द्वापरः परमोदारः परमब्रह्मचर्यवान् ।
उद्दीप्तवेषो मुकुटी पद्महस्तोऽहिमांशुभृत् ॥ १०४॥

स्मितः प्रसन्नवदनः पद्मोदरनिभाननः ।
सायन्दिवा दिव्यवपुरनिर्देश्यो महारथः ॥ १०५॥

महारथो महानीशः शेषः सत्त्वरजस्तमः ।
धृतातपत्रः प्रतिमो विमर्शी निर्णयस्थितः ॥ १०६॥

अहिंसकः शुद्धमतिरद्वितीयो विमर्दनः ।
सर्वदो धनदो मोक्षो विहारी बहुदायकः ॥ १०७॥

ग्रहनाथो ग्रहपतिर्ग्रहेशस् तिमिरापहः ।
मनो हरवपुः शुभ्रः शोभनः सुप्रभाननः ॥ १०८॥

सुप्रभः सुप्रभाकारः सुनेत्रो निक्षुभापतिः ।
राज्ञीप्रियः शब्दकरो ग्रहेशस् तिमिरापहः ॥ १०९॥

सैंहिकेयरिपुर्देवो वरदो वरनायकः ।
चतुर्भुजो महायोगी योगीश्वरपतिस् तथा ॥ ११०॥

अनादिरूपोऽदितिजो रत्नकान्तिः प्रभामयः ।
जगत्प्रदीपो विस्तीर्णो महाविस्तीर्णमण्डलः ॥ १११॥

एकचक्ररथः स्वर्णरथः स्वर्णशरीरधृक् ।
निरालम्बो गगनरो धर्मकर्मप्रभावकृत् ॥ ११२॥

धर्मात्मा कर्मणांसाक्षी प्रत्यक्षः परमेश्वरः ।
मेरुसेवी सुमेधावी मेरुरक्षाकरो महान् ॥ ११३॥

आधारभूको रतिमांस्तथा च धनधान्यकृत् ।
पापसन्तापसंहर्ता मनोवाञ्छितदायकः ॥ ११४॥

लोकहर्ता राज्यदायी रमणीयगुणोऽनृणी ।
कालत्रयानन्तरूपो मुनिवृन्दनमस्कृतः ॥ ११५॥

सन्ध्यारागकरः सिद्धः सन्ध्यावन्दनवन्दितः ।
साम्राज्यदाननिरतः समाराधनतोषवान् ॥ ११६॥

भक्तदुःखक्षयकरो भवसागरतारकः ।
भयापहर्ता भगवान् अप्रमेयपराक्रमः ॥ ११७॥

मनुस्वामी मनुपतिर्मान्यो मन्वन्तराधिपः ॥ ११८॥

॥ इति श्री भविष्ये महापुराणे सूर्यसहस्रनाम स्तोत्रं सम्पूर्णम्
॥




No comments:

Post a Comment