Followers

Friday, July 31, 2015

Sri venkateshwara ashtothara shata nama stotram (Venkates stotra.24)





Sri venkateshwara ashtothara shata nama stotram(Venkatesh stotra.24)

https://youtu.be/-H0_vlUheyc
=== barah purana

==

॥ श्रीवेङ्कटेशाष्टोत्तरशतनामस्तोत्रम्  ॥

ऋषय ऊचुः ।
सूत सर्वार्थतत्त्वज्ञ सर्ववेदाङ्गपारग ।
येनचाराधितः सद्यः श्रीमद्वेङ्कटनायकः ॥ १॥

भवत्यभीष्टसर्वार्थप्रदस्तद्ब्रूहि नो मुने ।
इति पृष्टस्तदा सूतो ध्यात्वा स्वात्मनि तत् क्षणात् ॥

उवाच मुनिशार्दूल श्रूयतामिति वै मुनीन् ॥ २॥

 ॥ श्रीसूत उवाच॥

अस्ति किञ्चिन्महद्गोप्यं भगवत्प्रियकारकम् ।
पुरा शेषेण कथितं कपिलाय महात्मने ॥ ३॥

नाम्नामष्टशतं पुण्यं पवित्रं पापनाशनम् ।
आदाय हेमपद्मानि स्वर्णदीसम्भवानि च ॥ ४॥

ब्रह्मा वै पूर्वमभ्यर्च्य श्रीमद्वेङ्कटनायकम् ।
अष्टोत्तरशतैर्दिव्यैर्नामभिर्मुनिपुष्पकैः ॥ ५॥

स्वाभीष्टं लब्धवान् ब्रह्मा सर्वलोकपितामहः ।
भवद्भिरपि पद्मैश्च समभ्यर्च्य च नामतः ॥ ६॥

तेषां शेषनगाधीशो मनसो ह्लादकारकः ।
नाम्नामष्टशतं पुण्यं वेङ्कटाद्रिनिवासिनः ॥ ७॥

आयुरारोग्यदं पुंसां धनधान्यसुखप्रदम् ।
ज्ञानप्रदं विशेषेण महदैश्वर्यकारकम् ॥ ८॥

अर्चयेन्नामभिर्दिव्यैः वेङ्कटेशपदान्तिकैः ।
नाम्नामष्टशतस्यास्य ऋषिर्बहुः प्रकीर्तितः ॥ ९॥

छन्दोऽनुष्टुप् तथा देवो वेङ्कटेश उदाहृतः ।
नीलगोक्षीरसम्भूतो बीजमित्युच्यते बुधैः ॥ १०॥

श्रीनिवासस्तथा शक्तिर्हृदयं वेङ्कटाधिपः ।
विनियोगस्तथाऽभीष्टसिद्ध्यर्थे विनिगद्यते ॥ ११॥

ॐ नमो वेङ्कटेशाय शेषाद्रिनिलयाय च ।
वृषदृग्गोचरायाथ विष्णवे सततं नमः ॥ १२॥

सदञ्जनगिरीशाय वृषाद्रिपतये नमः ।
मेरुपुत्रगिरीशाय सरस्स्वामितटं जुषे ॥ १३॥

कुमारकल्पसेव्याय वज्रदृग्विषयाय च ।
सुवर्चलासुतान्यस्त-सेनापत्यकराय च ॥ १४॥

रामाय पद्मनाभाय सदा वायुस्तुताय च ।
त्यक्तवैकुण्टलोकाय गुह्यकुञ्जविहारिणे ॥ १५॥

हरिचन्दनगोप्तेन्द्रस्वामिने सततं नमः ।
शङ्करऽजननेत्राब्जविषयाय नमो नमः ॥ १६॥

वसूपरिचरित्राय कृष्णाय सततं नमः ।
अब्धिकन्यापरिष्वक्तवक्षसे वेङ्कटाय च ॥ १७॥

सनकादिमहायोगिपूजिताय नमो नमः ।
देवजित्प्रमुखानन्तदैत्यसङ्घप्रणासिने ॥ १८॥

श्वेतद्वीपे वसन्मुक्तपूजिताङ्घ्रियुगाय च ।
शेषपर्वतरूपत्वप्रशासनवराय च ॥ १९॥

सानुस्थापिततार्क्ष्याय तार्क्ष्याचलनिवासिने ।
मायागूढविमानाय गरुडस्कन्धवासिने ॥ २०॥

अनन्तशिरसे नित्यमनन्ताक्षाय ते नमः ।
अनन्तचरणाय श्रीशैलनिलयाय च ॥ २१॥

दामोदरय ते नित्यं नीलमेघनिभाय च ।
ब्रह्मादिदेवदृष्टाय विश्वरूपाय ते नमः ॥ २२॥

वेङ्कटागतसद्धेमविमानान्तर्गताय च ।
अगस्त्यार्चिताशेषजनदृग्विषयाय च ॥ २३॥

वासुदेवाय हरये तीर्थपञ्चकवासिने ।
वामदेवप्रियायाथ जनकेष्टप्रदाय च ॥ २४॥

वाक्पतिब्रह्मधात्रे च चन्द्रलावण्यदायिने ।
मार्कण्डेयमहातीर्थजातपुण्यप्रदाय च ॥ २५॥

नारायणनगेशाय ब्रह्मकॢप्तोत्सवाय च ।
शङ्कचक्रगदापद्मलसत्करतलाय च ॥ २६॥

द्रवन्मृगमदासक्तविग्रहाय नमो नमः ।
केशवाय नमस्तुभ्यं नित्ययौवनमूर्तये ॥ २७॥

अर्थितार्थप्रदात्रे च विश्वतोर्थौघहारिणे ।
तीर्थस्वामिसरःस्नातजनाभीष्टप्रदाय च ॥ २८॥

कुमारधारिकास्कन्दमह्यशक्ति-प्रदाय च ।
जमदग्निसमद्भूतपौत्रिणे कूर्ममूर्तये ॥ २९॥

किन्नरद्वन्द्वशापान्तप्रदात्रे माधवाय च ।
वैखानसमुनिश्रेष्ठ-पूजिताय नमो नमः ॥ ३०॥

सिंहाचलनिवासाय श्रीमन्नारायणाय च ।
सद्भक्तनीलकण्ठाय नृसिंहाय नमो नमः ॥ ३१॥

कुमुदाक्षगणश्रेष्ठसेनापत्यप्रदाय च ।
दुर्मेधःप्राणहर्त्रे च वामनाय नमो नमः ॥ ३२॥

क्षत्रियान्तकरामाय मत्स्यरूपाय ते नमः ।
पाण्डवाघप्रहर्त्रे च श्रीधराय नमो नमः ॥ ३३॥

उपत्यकाप्रदेशस्थशङ्करध्यानमूर्तये ।
रुक्माब्जसरसीकूललक्ष्मीकृततपस्विने ॥ ३४॥

लसल्लक्ष्मीकराम्भोजदत्तकल्हारकस्रजे ।
शालिग्रामनिवासाय शुकदृग्विषयाय च ॥ ३५॥

नारायणार्थिताशेषजनदृग्विषयाय च ।
मृगयारसिकायाथ वृषभासुरहारिणे ॥ ३६॥

अञ्जनागोत्रपतये वृषभाचलवासिने ।
अञ्जनासुतदात्रे च माधवस्याघहारिणे ॥ ३७॥

प्रियाङ्गप्रियकोलाय श्वेतकोलवराय च ।
नीलधेनुपयोधारासेकदेहोद्भवाय च ॥ ३८ ।
सगरप्रियमित्राय चोलपुत्रप्रियाय च ।
सुधर्मिणे सुचैतन्यप्रदात्रे मधुघातिने ॥ ३९॥

कृष्णाख्यविप्रवेदान्तदेशिकत्व प्रियाय च ।
वराहाचलनाथाय बलभद्राय ते नमः ॥ ४०॥

त्रिविक्रमाय महते हृषीकेशाय ते नमः ।
अच्युताय नमो नित्यं नीलाद्रिनिलयाय च ॥ ४१॥

नमः क्षीराब्धिनाथाय वैकुण्ठाचलवासिने ।
मुकुन्दाय नमो नित्यं अनन्ताय नमो नमः ॥ ४२॥

विरिञ्चभ्यर्तितानीतसौम्यरूपाय ते नमः ।
सुवर्णमुखरीस्नातमनुजाभीष्टदायिने ॥ ४३॥

हलायुधजगत्तीर्थसमस्तफलदायिने ।
गोविन्दाय नमो नित्यं श्रीनिवासाय ते नमः ॥ ४४॥

अष्टोत्तरशतं नाम्नां चतुर्थ्या नमसान्वितम् ।
यः पठेच्छृणुयान्नित्यं श्रद्धाभक्तिसमन्वितः ॥ ४५॥

वेङ्कटेशाभिधे  यन्त्रे वेङ्कटाद्रिनिवासिनः ।
अर्चयन्नामभिस्तस्य फलमुक्तं प्रसिध्यते ॥ ४६॥

अर्चनायां विशेषेण ग्राह्यमष्टोत्तरं शतम् ।
तस्य श्रीवेङ्कटेशश्च प्रसन्नो भवति ध्रुवम् ॥ ४७॥

गोपनीयमिदं स्तोत्रं सर्वेषां न प्रकाशयेत् ।
श्रद्धाभक्तियुजामेव दापयेन्नामसङ्ग्रहम् ॥ ४८॥

इति शेषेण कथितं कपिलाय महात्मने ।
कपिलाख्यमहायोगिसकाशात्तु मयाश्रुतम् ।
तदुक्तं भवतामद्य सद्यः प्रीतिकरं हरेः ॥ ४९॥

॥ इति श्रीवराहपुराणे श्रीवेङ्कटेशाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥

==
 
https://youtu.be/2yHHAFYAJO8
 
 
https://youtu.be/9mI21FbFr64
==
 
https://youtu.be/R-O7lvzLU4w
 

No comments:

Post a Comment