Followers

Monday, July 27, 2015

"Sri Venkateswara Saranagathi Sthotram"(Venkateswar stotra.17)







"Sri Venkateswara Saranagathi Sthotram"(Venkateswar stotra.17)


Sound of Divinity (1) - Saptha Rishi Krutha "Sri Venkateswara Saranagathi Sthotram" (Sanskrit Hymn)

https://youtu.be/ehmKAjoJi7U



॥ श्रीवेङ्कटेशशरणागतिस्तोत्रम् ॥

शेषाचलासमासाद्य कश्यपाद्या महर्षयः ।
वेङ्कटेशं रमानाथं शरणं प्रापुरञ्जसा ॥ १॥

कलिसन्तारकं पुण्यं स्तोत्रमेतत् जपेन्नरः ।
सप्तर्षि वा प्रसादेन विष्णुः तस्मै प्रसीदती ॥ २॥

कश्यप उवाच -
कारि ह्रीमन्त विद्यायाः प्राप्यैव परदेवता ।
कलौ श्रीवेङ्कटेशाख्यः त्वामहं शरणं भजेत् ॥ ३॥

अत्री उवाच -
अकारादि क्षकारान्त वर्णैः यः प्रतिपाद्यते ।
कलौ श्रीवेङ्कटेशाख्यः शरणं मे रमापती ॥ ४॥

भरद्वाज उवाच -
भगवान् भार्गवीकान्तो भक्ताभीप्सित दायक ।
भक्तस्य वेङ्कटेशाख्यो भरद्वाजस्य मे गतिः ॥ ५॥

विश्वामित्र उवाच -
विराट् विष्णुर्विधाता च विश्वविज्ञान विग्रहः ।
विश्वामित्रस्य शरणं वेङ्कटेशो विभुः सदा ॥ ६॥

गौतम उवाच -
गौर्गालीशप्रियो नित्यं गोविन्दो गोपतिर्विभुः ।
शरणं गौतमास्यास्त वेङ्कटाधि शिरोमणिः ॥ ७॥

जमदग्निरुवाच -
जगत्कर्ता जगत्भर्ता जगन्नाथो जगन्मया ।
जमदग्निः प्रपन्नस्य जीवेशो वेङ्कटेश्वरः ॥ ८॥

वसिष्ठ उवाच -
भक्तिज्ञानमात्रं च यन् निर्विशेषं सुखं च सत् ।
तत्र हैवाहमस्मीति वेङ्कटेशं भजेत् सदा ॥ ९॥

सप्तर्षिरचितं स्तोत्रं सर्वदा यः पठेन् नरः ।
सोऽभयं प्राप्नुयान् सत्यं सर्वत्र विजयी भवेत् ॥ १०॥

इति श्रीवेङ्कटेशशरणागतिस्तोत्रम् सम्पूर्णम् । 
 
 https://youtu.be/-7R9QUHYMp8
 
 
 https://youtu.be/9hMyjP81XOM
 

No comments:

Post a Comment