Followers

Friday, March 20, 2015

SRIRAMA SAHASRANAMA STOTRAM(Ram stotra.23)






SRIRAMA SAHASRANAMA STOTRAM(Ram stotra.23)

https://youtu.be/7A81lTe1s3M

==

          श्रीरामसहस्रनामस्तोत्रम्
राजीवलोचनः श्रीमान् श्रीरामो रघुपुंगवः।
रामभद्रो सदाचारः राजेन्द्रो जानकीपतिः॥१॥
अग्रगण्यो वरेण्यश्च वरदो परमेश्वरः ।
जनार्दनो जितामित्रः परार्थैकप्रयोजनः॥२॥
विश्वामित्रप्रियो दान्तः शत्रुभिच्छत्रुतापनः ।
सर्वज्ञो वालिमर्दी च ज्ञानभाव्योऽपरिच्छदः॥३॥
वाग्मी सत्यव्रतो सर्वदेवादिश्शरणश्शुचिः।
ज्ञानगम्यो दृढप्रज्ञः खरध्वंसी प्रतापवान् ॥४॥
धृतिमानात्मवान्वीरो जितक्रोधोऽरिमर्दनः
विश्वरूपो विशालाक्षः प्रभुः परिबृढो दृढः ॥५॥
ईशः खड्गधरः श्रीमान् कौसलेयोऽनसूयकः।
विपुलांसो महोरस्कः परमेष्ठी परायणः   ॥६||
सत्यव्रतो सत्यसन्धो गुरुः परमधार्मिकः 
लोकज्ञो लोकवन्द्यश्च लोकात्मा लोककृत्परः॥७॥
अनादिर्भगवान् सेव्यो जितमायो रघूद्वहः।
रामो दयापरो दक्षः सर्वज्ञः सर्वपावनः ॥८॥
ब्रह्मण्यो नीतिमान् गोप्ता सर्वदेवमयो हरः।
सुन्दरः पीतवासा च सूत्रकारः पुरातनः ॥९॥
सौम्यो महर्षिः कोदण्डी सर्वगः सर्वगोचरः।
कविः सुग्रीववरदो सर्वपुण्यफलप्रदः ॥१०॥
भव्यो जितारिषड्वर्गो महोदारोऽघनाशनः।
सुकीर्तिरादिपुरुषो शांतः पुण्यकृतागमः ॥११॥
अकल्मषः चतुर्बाहुः सर्वावासो दुरासदः।
मितभाषी निवृत्तात्मा स्मृतिमान् वीर्यवान् प्रभुः ॥१२॥
धीरोदात्तो घनश्यामः सर्वविद्याविशारदः।
अध्यात्मयोगनिलयः सुमना लक्ष्मणाग्रजः ॥१३॥   
सर्वतीर्थमयश्शूरः सर्वयज्ञफलप्रदः।
यज्ञस्वरूपी यज्ञेशो जरामरणवर्जितः ॥१४॥
वर्णाश्रमगुरुर्वर्णी पुरजित्पुरुषोत्तमः
शिवलिंगप्रतिष्ठाता परमात्मा परात्परः ॥१५॥
प्रमाणभूतो दुर्ज्ञेयः पूर्णः परपुरंजयः
अनन्तदृष्टिरानन्दो धनुर्वेदी धनुर्धरः॥१६॥
गुणाकरो गुणश्रेष्ठः सच्चिदानन्दविग्रहः
अभिवाद्यो महाकायः विश्वकर्मा विशारदः ॥१७॥
विदितात्मा वीतरागस्तपस्वीशो जनेश्वरः
कल्याणप्रकृतिः कल्यः सर्वेशः सर्वकामदः ॥१८॥
अक्षरः पुरुषः साक्षी केशवः पुरुषोत्तमः।
लोकाध्यक्षो महामायो विभीषणवरप्रदः ॥१९॥
आनन्दविग्रहो ज्योतिर्हनूमत्प्रभुरक्षयः।
भ्राजिष्णुर्साहसी भोक्ता सत्यवादी बहुश्रुतः ॥२०॥
सुखदः करुणो कर्ता भवबन्धविमोचनः
देवचूडामणिर्नेता ब्रह्मण्यो ब्रह्मवर्धनः ॥२१॥
संसारतारणो रामः सर्वदुःखविमोक्षकृत् ।
विद्वत्तमो विश्वभर्ता विश्वहर्ता च विश्वकृत्॥ २२॥
नित्यो नियतकल्य़ाणो सीताशॊकविनाशकृत्।
काकुत्स्थः पुण्डरीकाक्षो विश्वामित्रभयापहः॥२३॥ 
 
मारीचमथनो मान्यः विराधवधपण्डितः।
दुःस्वप्ननाशनो धन्यः किरीटी त्रिदशाधिपः॥२४॥
महाधनुर्महाशूरो भीमो भीमपराक्रमः
सर्वस्वरूपो तत्वार्थो विश्ववेत्ता सुविक्रमः ॥२५॥
भूतात्मा भूतकृत्स्वामी कालज्ञानी महावटुः।
अनिर्विण्णो गुणग्राही निष्कलंकः कलंकहा॥२६॥
स्वभावभद्रो शत्रुघ्नो केशवः स्थाणुरीश्वरः ।
भूतादिः शंभुरादित्यो स्थविष्ठः स्थविरो ध्रुवः ॥२७॥
कवची कुण्डली चक्री खड्गी भक्तजनप्रियः।
अमृत्युर्जन्मरहितः स्वयम्भूस्सर्वगोचरः ॥२८॥
अनुत्तमोऽप्रमेयात्मा सर्वादिर्गुणसागरः।
समः समात्मा समयः जटामकुटमण्डितः॥२९॥
अजेयः सर्वभूतात्मा विष्वक्सेनो महातपाः।
लोकाध्यक्षो महाबाहुः अमृतो वेदवित्तमः॥३०॥
सहिष्णु: सद्गतिश्शास्ता विश्वयोनिर्महाद्युतिः
अतीन्द्रियो जितप्राशुरुपेन्द्रो वामनो बली ॥३१॥
माधवो विश्वधाता च ब्रह्मा विष्णुश्च शंकरः।
हंसो मरीचिर्गोविन्दो रत्नगर्भो महेश्वरः ॥३२॥
व्यासो वाचस्पतिः स्वच्छः शकटासुरमर्दनः।
जानकीवल्लभः पूज्यो प्रकटः प्रीतिवर्धनः ॥३३॥
संभवोऽतीन्द्रियो वेद्योऽनिर्देश्यो जांबवत्प्रभुः।
मदनो मन्मथो व्यापी चित्स्वरूपी निरंजनः ॥३४॥
नारायणोऽग्रणीस्साधुः जटायुप्रीतिवर्धनः।
नैकरूपो जगन्नाथः सुरकार्यहितः प्रभुः ॥३५॥
जितक्रोधो जितारातिः प्लवंगाधिपराज्यदः
वसुदो सुभुजो नैकमायो भव्यः प्रमोदनः ॥३६॥
चण्डांशुस्सिद्धसंकल्पः शरणागतवत्सलः।
अगदो रोगहर्ता च मंत्रविन्मंत्रभावनः ॥३७॥
सौमित्रिवत्सलो धुर्यो व्यक्ताव्यक्तस्वरूपधृक् ।
विशीष्टो ग्रामणीश्श्रीमान् अनुकूलः प्रियंवदः॥३८॥
अतुलः सात्विको धीरः शरासनविशारदः।
ज्येष्ठो सर्वगुणॊपेतः शक्तिमान् ताटकान्तकः॥३९॥
वैकुण्ठः प्राणिनां प्राणः कमठः कमलापतिः।
गोवर्धनधरो मत्स्यरूपः कारुण्यसागरः  ॥४०॥
कुंभकर्णप्रभेत्ता च गोपीगोपालसंवृतः।
मायावी स्वापनो व्यापी रैणुकेयबलापहः॥४१॥
पिनाकमथनो वन्द्यः समर्थो गरुडध्वजः।
लोकत्रयाश्रयो लोकभरितो भरताग्रजः॥४२॥
श्रीधरः सद्गतिर्लोकसाक्षी नारायणॊ बुधः।
मनोवेगो मनोरूपी पूर्णः पुरुषपुंगवः ॥४३॥
यदुश्रेष्ठो यदुपतिर्भूतावासो सुविक्रमः
भूताधारो धराध्यक्षः चतुर्मूर्तिर्महानिधिः ॥४४॥
चाणूरमर्दनोऽभेद्यः शान्तो भरतवन्दितः।
शब्दातिगो गभीरात्मा कोमलांगः प्रजाकरः॥४५॥
लोकाध्वगो शेषशायी क्षीराब्धिनिलयोऽनलः।
आत्मयोनिरदीनात्मा सहस्राक्षः सहस्रपात् ॥४६॥
अमृतांशुर्महागर्तो निवृत्तविषयस्पृहः।
त्रिकालज्ञो मुनिर्साक्षी विहायसगतिः कृतिः ॥४७॥
पर्जन्य: कुमुदो लोकावासः कमललोचनः ।
श्रीवत्सवक्षा श्रीवासो वीरहा लक्ष्मणाग्रजः ॥४८॥
लोकाभिरामो लोकारिमर्दनो सात्विकप्रियः।
देवसेनापतिर्मेघश्यामलो राक्षसान्तकृत् ॥४९॥
दिव्यायुधधरः श्रीमान् अप्रमेयो जितेन्द्रियः ।
भूदेववन्द्यो जनकप्रियकृत्प्रपितामहः ॥५०॥
वित्तमः सात्विको सत्यः सत्यसन्धस्त्रिविक्रमः।
सुलभः सुव्रतः सूक्ष्मः सुघोषः सुखदः सुखी ॥५१॥
दामोदरोऽच्युतः शार्ङ्गी वामनो मथुराधिपः
देवकीनन्दनः शौरिः शृङ्गी कैटभमर्दनः ॥५२॥
सप्ततालप्रभेत्ता च मित्रवंशप्रवर्धनः ।
कालस्वरूपी कालात्मा कालः कल्याणदः कविः॥५३॥
संवत्सरो ऋतुः पक्षः अयनो दिवसो युगः।
सद्योविमुक्तो निर्लेपः सर्वव्यापी निरामयः ॥५४॥
रसो रसज्ञो सारज्ञो लोकसारो रसात्मकः ।
सर्वदुःखातिगो विद्याराशिः परमगोचरः ॥५५॥
शेषो विशेषो विगतकल्मषो रघुपुङ्गवः।
वर्णश्रेष्ठो वर्णभव्यो वर्णो वर्णगुणोज्ज्वल:॥५६॥
कर्मसाक्षी गुणश्रेष्ठः देवासुरनमस्कृतः।
देवादिदेवो देवर्षिः देवासुरवरप्रदः ॥५७॥
सर्वदेवमयश्चक्री शार्ङ्गपाणिरनुत्तमः।
मनोबुद्धिरहंकारः प्रकृतिः पुरुषोऽव्ययः ॥५८॥
न्यायो न्यायनयः श्रीमान् नयो नगधरो ध्रुवः।
लक्ष्मीभर्ता विश्वभर्ता देवेन्द्रो बलिमर्दनः ॥५९॥
भव्यो विमर्दनो यज्वाऽनुत्तमो मुनिसेवितः।
देवाग्रणीर्शिवध्यानतत्परः परमंपदम् ॥६०॥
सामगानप्रियोऽक्रूरो पुण्यकीर्ति: सुलोचनः
पुण्यः पुण्याधिको पूर्वः पूर्णः पूरयिता रविः ॥६१॥
जटिलो कल्मषध्वान्तप्रभञ्जनविभावसुः।
अव्यक्तलक्षणो व्यक्तो दशास्यद्विपकेसरिः ॥६२॥
कलानिधि कलारूपो कमलानन्दवर्धनः।
जयो जितारिः संपूर्णो शमनो भवभञ्जनः॥६३॥
अलङ्करिष्णुरचलः रोचिष्णुर्विक्रमोत्तमः।
अंशुर्शब्दगतिः शब्दगोचरो रञ्जनो रघुः॥६४॥
निश्शब्दः प्रणवो मायी स्थूलः सूक्ष्मो लघुर्गुरुः।
आत्मयोनिरयोनिश्च सप्तजिह्वः सहस्रपात् ॥६५॥
अमृतांशुर्महागर्तो निवृत्तविषयस्पृहः।
सनातनतमो स्रग्वी पेशलो यमिनां वरः ॥६६॥
शक्तिमान् शंखभृन्नाथः गदापद्मरथाङ्गभृत्।
निरीहो निर्विकल्पश्च चिद्रूपो वीतसाध्वसः ॥६७॥
शताननः सहस्राक्षः शतमूर्तिरहःप्रभुः ।
सत्पुण्डरीकनयनो विद्रवः कठिनोऽद्रवः ॥६८॥
उग्रः ग्रहपतिः कृष्णो समर्थोऽनर्थनाशनः।
अधर्मशत्रुरक्षय्यो पुरुहूतः पुरस्कृतः ॥६९॥
ब्रह्मगर्भो बृहद्गर्भः धर्मधेनुर्धनागमः।
हिरण्यगर्भो ज्योतिष्मान् सुललाटः सुविक्रमः ॥७०॥
शिवपूजारतः श्रीमान् भवानीप्रियकृद्वशी।
नरो नारायणो रामः कपर्दी नीललोहितः ॥७१॥
रुद्रः पशुपतिः स्थाणुर्विश्वामित्रो द्विजेश्वरः।
मातामहो मातरिश्वा विरिञ्चिर्विष्टरश्रवाः ॥७२॥
अक्षोभ्यः सर्वभूतानां चण्डः सत्यपराक्रमः।
बालखिल्यो महाकल्पः कल्पवृक्षः कलाधरः॥७३॥
निदाघस्तपनो मेघः श्लक्ष्णः परबलापहृत्।
कबन्धमथनो दिव्यः कम्बुग्रीवो शिवप्रियः॥७४॥
सुधानिधिः सुनिष्पन्नः सुरभिः शिशिरात्मकः।
असंमृष्टोऽवधिः शूरः प्रमाथी पापनाशकृत् ॥७५॥
वसुश्रवा  कव्यवाहः प्रतप्तो विश्वभाजनः।
रामो नीलोत्पलश्यामः ज्ञानस्कन्धो महाद्युतिः ॥७६॥
पवित्रपादो पापारिर्मणिपूरो नभोगतिः।
उत्तारणो दुष्कृतिहा दुर्धर्षः दुस्सहायः॥७७॥
अभयोऽमृताशोऽमृतवपुः धर्मी धर्मकृपाकरः।
भव्यो विवस्वानादित्यो योगाधारो दिवस्पतिः ॥७८॥
वेदान्तसारसन्दोहो दूषणत्रिशिरोहरः।
अनन्तगुणगंभीरो दण्डकारण्यपुण्यकृत्॥७९॥
सुब्रह्मण्यो महायोगी भृतमानवजीवनः।
अरिन्दमोऽरविन्दास्यो राघवो रघुनन्दनः॥८०॥
सुशीलः सूनृतालापः सुमुखी शुभकुण्डलः।
पुण्योदयो महेष्वासः क्ष्मापतिर्क्षत्रियर्षभः॥८१॥
उदारकीर्तिरुद्योगी वाङ्मयः सदसन्मयः।
नक्षत्रमाली नाकेशः स्वाधिष्ठानपदाश्रयः ॥८२॥
चतुर्वर्गधरो वर्णी शक्तित्रयफलप्रदः।
निदानगर्भो निर्व्याजो निरीशो व्याधिमर्दनः॥८३॥
श्रीवल्लभो शिवारंभः शान्तो भद्रो समञ्जसः।
भूशयो भूपतिर्भूतिभूषणो भूतभावनः ॥८४॥
अकायो भक्तकायस्थः कालज्ञानी महावटुः।
परार्थवृत्तिरचलो विविक्तः श्रुतिसागरः ॥८५॥
शुभस्वभावो मध्यस्थः संसारभयनाशनः।
वैद्यो वेद्यो वियद्गोप्ता सर्वामरमुनीश्वरः ॥८६॥  
सुरेन्द्रः शरणः शर्म  कर्मकृत्कर्म्यधोक्षजः।
धैर्यो धीरश्च धात्रीशः सङ्कल्पः शर्वरीपतिः ॥८७॥
परमार्थगुरुर्द्रष्टा शुचिराश्रितवत्सलः
विष्णुर्जिष्णुर्विभुर्यज्ञो यज्ञेशो यज्ञपालकः॥८८॥
प्रभविष्णुश्च लोकात्मा लोकेशो लोकभावनः।
केशव: केशिहा कार्यः कविः कारणकारणः ॥८९॥
कार्यकर्ता कलाश्रेष्ठो वासुदेवः पुरुष्टुतः
आदिकर्ता वराहश्च माधवो मधुसूदनः ॥९०॥
नारायणॊ नरो हंसः विष्वक्सेनो जनार्दनः।
विश्वकर्ता महाभागः ज्योतिष्मान् पुरुषोत्तमः ॥९१॥
वैकुण्ठः पुण्डरीकाक्षः कृष्णः सूर्यो सुरार्चितः।
नारसिंहो  महाभीमो वज्रदंष्ट्रो नखायुधः ॥९२॥
आदिदेवो जगत्कर्ता योगेशो गरुडध्वजः।
गोविन्दो गोपतिर्गोप्ता भूपतिर्भुवनेश्वरः ॥९३॥
पद्मनाभो हृषीकेशः धाता दामोदरः प्रभुः।
त्रिविक्रमस्त्रिलोकेशो ब्रह्मेशः प्रीतिवर्धनः॥९४॥
वामनो दुष्टदमनः गोविन्दो गोपवल्लभः।
भक्तप्रियोऽच्युतः कृष्णो सत्यकीर्तिर्धृतिः श्रुतिः ॥९५॥
कारुण्यः करुणावासो पापघ्नो शान्तिवर्धनः।
संन्यासी शास्त्रतत्त्वज्ञः मन्दराद्रिनिकेतनः॥९६॥
बदरीनिलयो भास्वान् तपस्वी दैवतप्रभुः।
भूतावासो गुहावासो सर्वावासः श्रियःपतिः ॥९७॥
तपोवासो सुखावासः सर्वावासः सनातनः।
पुरुषः पुष्करः पुण्यः पुष्कराक्षो महेश्वरः ॥९८॥
पुण्यकीर्तिः पुराणज्ञः पुण्य़दः पुण्यवर्धनः।
शंखी चक्री गदी शार्ङ्गी लाङ्गली मुसली हली।।९९॥
किरीटी कुण्डली हारी मेखली कवची ध्वजी।
योद्धा जेता महावीर्यो शत्रुघ्नः शत्रुभञ्जनः ॥१००॥
शास्त्री शास्त्रकरः शास्ता श्रीकरः शंकरस्तुतः।
सारथी सात्विक: स्वामी सामवेदप्रियः सुधीः ॥१०१॥
पवनस्साहसी शक्तः सुषमाङ्गः समृद्धिमान्।
स्वर्गदः कामदः कीर्तिदायकः कीर्तिनायकः ॥१०२॥
मोक्षदो मोहशमनः क्षीराब्धिसुनिकेतनः ।
सर्वात्मा सर्वलोकेशः श्रीकरः पापनाशनः ॥१०३॥
सर्वदेवो जगन्नाथः सर्वदेवमहेश्वरः।
सर्गस्थित्यन्तकृत् स्रष्टा सर्वलोकसुखावहः॥१०४॥
सेतुकृत् जितवाराशिः सत्यानन्दनिधिः शिवः।
अक्षयः शाश्वतोऽनन्तः क्षयवृद्धिविवर्जितः॥१०५॥
निर्लेपो निर्गुणो सूक्ष्मः निर्विकारो निरञ्जनः।
निर्मलो निरहंकारः निर्द्वन्द्वो निर्जितेन्द्रियः॥१०६॥
सर्वोपाधिविनिर्मुक्तः सप्तमातृव्यवस्थितः।
अविकारी विभुर्नित्यः परमात्मा पुरातनः॥१०७॥
अचलो निर्मलो व्यापी नित्यतृप्तो निराश्रयः।
श्यामो युवा लोहिताङ्गः दीप्तास्यो मितभाषणः॥१०८॥
आजानुबाहुः सुमुखो सिंहस्कन्धो महाभुजः।
सत्त्ववान् गुणसंपन्नः स्वतेजोदीपिताखिलः ॥१०९॥
कालात्मा भगवान् कालः कालचक्रप्रवर्तकः।
नारायणः परंज्योतिः परंधाम परायणः॥११०॥
विश्वदृक् विश्वभुक् चैव विश्वगोप्ता च विश्वपः।
विश्वेश्वरो विश्वमूर्तिर्विश्वात्मा विश्वभावनः ॥१११॥
सर्वभूतसुहृच्छान्तः सर्वभूतानुकंपनः।
सर्वेश ईश्वरस्सर्वः सर्वभूताशयस्थितः ॥११२॥
आभ्यन्तरतमोहर्ता देवो नारायणः परः।
अनादिनिधनो स्रष्टा प्रजापतिपतिर्हरिः॥११३॥
नारसिंहो हृषीकेशो सर्वात्मा सर्वदृग्वशी।
श्रीमान् धाता विधाता च जगतस्तस्थुषः प्रभुः ॥११४॥
नेता सनातनो कर्ता सर्वेषां प्रभुरीश्वरः।
सहस्रमूर्धा विश्वात्मा विष्णुर्विश्वदृगव्ययः ॥११५॥
पुराणपुरुषः स्रष्टा सहस्राक्षः सहस्रपात्।
तत्त्वो नारायणो विष्णुर्वासुदेवः सनातनः ॥११६॥
परमात्मा परंब्रह्म सच्चिदानन्दविग्रहः।
परंज्योति परंधाम पराकाशः परात्परः ॥११७॥
अच्युतः पुरुषः कृष्णो शाश्वतः शिव ईश्वरः।
सत्यः सर्वगतः स्थाणुर्रुद्रो साक्षी प्रजापतिः ॥११८॥
हिरण्य्गर्भो विमलो लोककृत् लोकदृग्विभुः।
अकारवाच्यो भगवान् त्रिभुर्नीलापतिः प्रभुः ॥११९॥
सर्वलोकेश्वरः श्रीमान् नैसर्गिकसुहृसुखः।
कृपापीयूषजलधिः शरण्यः सर्वदेहिनाम् ॥१२०॥
अहल्यापावनोऽगम्यो स्वर्गेयो श्रुतिगायनः।     
विविक्तगतिरीशानो विज्ञेयो विष्णुतत्परः॥१२१॥

अनन्तः श्रीपतिर्रामो गुणभृन्निर्गुणो महान्॥
श्रीमान् नारायणः स्वामी जगतांपतिरीश्वरः ॥१२२॥

=================
Also see

https://youtu.be/FhVKTakz_fg
===
also see

https://youtu.be/O-CjvgYbAJ4 
&

No comments:

Post a Comment