Followers

Sunday, February 15, 2015





SRI SHIVA KAVACHAM (Stotra.16)



http://youtu.be/mavnfZhaYTs



Shiva Kavacham

चन: ऋशभ योगीश्वर अस्य श्री शिवकवच स्तोत्रमहामन्त्रस्य ऋषभयोगीश्वर ऋषिः ।
अनुष्टुप् छन्दः ।
श्रीसाम्बसदाशिवो देवता ।
ॐ बीजम् ।
नमः शक्तिः ।
शिवायेति कीलकम् ।
मम साम्बसदाशिवप्रीत्यर्थे जपे विनियोगः ॥
करन्यासः ॐ सदाशिवाय अङ्गुष्ठाभ्यां नमः । नं गङ्गाधराय तर्जनीभ्यां नमः । मं मृत्युञ्जयाय मध्यमाभ्यां नमः ।
शिं शूलपाणये अनामिकाभ्यां नमः । वां पिनाकपाणये कनिष्ठिकाभ्यां नमः । यम् उमापतये करतलकरपृष्ठाभ्यां नमः ।
हृदयादि अङ्गन्यासः ॐ सदाशिवाय हृदयाय नमः । नं गङ्गाधराय शिरसे स्वाहा । मं मृत्युञ्जयाय शिखायै वषट् ।
शिं शूलपाणये कवचाय हुम् । वां पिनाकपाणये नेत्रत्रयाय वौषट् । यम् उमापतये अस्त्राय फट् । भूर्भुवस्सुवरोमिति दिग्बन्धः ॥
ध्यानम्%वज्रदंष्ट्रं त्रिनयनं कालकण्ठ मरिन्दमम् ।
सहस्रकरमत्युग्रं वन्दे शम्भुम् उमापतिम् ॥
रुद्राक्षकङ्कणलसत्करदण्डयुग्मः पालान्तरालसितभस्मधृतत्रिपुण्ड्रः ।
पञ्चाक्षरं परिपठन् वरमन्त्रराजं ध्यायन् सदा पशुपतिं शरणं व्रजेथाः ॥
अतः परं सर्वपुराणगुह्यं निःशेषपापौघहरं पवित्रम् ।
जयप्रदं सर्वविपत्प्रमोचनं वक्ष्यामि शैवम् कवचं हिताय ते ॥
पञ्चपूजा%लं पृथिव्यात्मने गन्धं समर्पयामि ।
हम् आकाशात्मने पुष्पैः पूजयामि ।
यं वाय्वात्मने धूपम् आघ्रापयामि ।
रम् अग्न्यात्मने दीपं दर्शयामि ।
वम् अमृतात्मने अमृतं महानैवेद्यं निवेदयामि ।
सं सर्वात्मने सर्वोपचारपूजां समर्पयामि ॥
मन्त्रः
ऋषभ उवाच
नमस्कृत्य महादेवं विश्वव्यापिनमीश्वरम् ।
वक्ष्ये शिवमयं वर्म सर्वरक्षाकरं नृणाम् ॥ 1 ॥
शुचौ देशे समासीनो यथावत्कल्पितासनः ।
जितेन्द्रियो जितप्राणश्चिन्तयेच्छिवमव्ययम् ॥ 2 ॥
हृत्पुण्डरीकान्तरसन्निविष्टं स्वतेजसा व्याप्तनभो‌உवकाशम् ।
अतीन्द्रियं सूक्ष्ममनन्तमाद्यं ध्यायेत् परानन्दमयं महेशम् ॥
ध्यानावधूताखिलकर्मबन्ध- श्चिरं चिदानन्द निमग्नचेताः ।
षडक्षरन्यास समाहितात्मा शैवेन कुर्यात्कवचेन रक्षाम् ॥
मां पातु देवो‌உखिलदेवतात्मा संसारकूपे पतितं गभीरे ।
तन्नाम दिव्यं परमन्त्रमूलं धुनोतु मे सर्वमघं हृदिस्थम् ॥
सर्वत्र मां रक्षतु विश्वमूर्ति- र्ज्योतिर्मयानन्दघनश्चिदात्मा ।
अणोरणियानुरुशक्तिरेकः स ईश्वरः पातु भयादशेषात् ॥
यो भूस्वरूपेण बिभर्ति विश्वं पायात्स भूमेर्गिरिशो‌உष्टमूर्तिः ।
यो‌உपां स्वरूपेण नृणां करोति सञ्जीवनं सो‌உवतु मां जलेभ्यः ॥
कल्पावसाने भुवनानि दग्ध्वा सर्वाणि यो नृत्यति भूरिलीलः ।
स कालरुद्रो‌உवतु मां दवाग्नेः वात्यादिभीतेरखिलाच्च तापात् ॥
प्रदीप्तविद्युत्कनकावभासो विद्यावराभीति कुठारपाणिः ।
चतुर्मुखस्तत्पुरुषस्त्रिनेत्रः प्राच्यां स्थितो रक्षतु मामजस्रम् ॥
कुठारखेटाङ्कुश शूलढक्का- कपालपाशाक्ष गुणान्दधानः ।
चतुर्मुखो नीलरुचिस्त्रिनेत्रः पायादघोरो दिशि दक्षिणस्याम् ॥
कुन्देन्दुशङ्खस्फटिकावभासो वेदाक्षमाला वरदाभयाङ्कः ।
त्र्यक्षश्चतुर्वक्त्र उरुप्रभावः सद्यो‌உधिजातो‌உवतु मां प्रतीच्याम् ॥
वराक्षमालाभयटङ्कहस्तः सरोजकिञ्जल्कसमानवर्णः ।
त्रिलोचनश्चारुचतुर्मुखो मां पायादुदीच्यां दिशि वामदेवः ॥
वेदाभयेष्टाङ्कुशटङ्कपाश- कपालढक्काक्षरशूलपाणिः ।
सितद्युतिः पञ्चमुखो‌உवतान्माम् ईशान ऊर्ध्वं परमप्रकाशः ॥
मूर्धानमव्यान्मम चन्द्रमौलिः भालं ममाव्यादथ भालनेत्रः ।
नेत्रे ममाव्याद्भगनेत्रहारी नासां सदा रक्षतु विश्वनाथः ॥
पायाच्छ्रुती मे श्रुतिगीतकीर्तिः कपोलमव्यात्सततं कपाली ।
वक्त्रं सदा रक्षतु पञ्चवक्त्रो जिह्वां सदा रक्षतु वेदजिह्वः ॥
कण्ठं गिरीशो‌உवतु नीलकण्ठः पाणिद्वयं पातु पिनाकपाणिः ।
दोर्मूलमव्यान्मम धर्मबाहुः वक्षःस्थलं दक्षमखान्तको‌உव्यात् ॥
ममोदरं पातु गिरीन्द्रधन्वा मध्यं ममाव्यान्मदनान्तकारी ।
हेरम्बतातो मम पातु नाभिं पायात्कटिं धूर्जटिरीश्वरो मे ॥
ऊरुद्वयं पातु कुबेरमित्रो जानुद्वयं मे जगदीश्वरो‌உव्यात् ।
जङ्घायुगं पुङ्गवकेतुरव्यात् पादौ ममाव्यात्सुरवन्द्यपादः ॥
महेश्वरः पातु दिनादियामे मां मध्ययामे‌உवतु वामदेवः ।
त्रिलोचनः पातु तृतीययामे वृषध्वजः पातु दिनान्त्ययामे ॥
पायान्निशादौ शशिशेखरो मां गङ्गाधरो रक्षतु मां निशीथे ।
गौरीपतिः पातु निशावसाने मृत्युञ्जयो रक्षतु सर्वकालम् ॥
अन्तःस्थितं रक्षतु शङ्करो मां स्थाणुः सदा पातु बहिःस्थितं माम् ।
तदन्तरे पातु पतिः पशूनां सदाशिवो रक्षतु मां समन्तात् ॥
तिष्ठन्तमव्याद् भुवनैकनाथः पायाद्व्रजन्तं प्रमथाधिनाथः ।
वेदान्तवेद्यो‌உवतु मां निषण्णं मामव्ययः पातु शिवः शयानम् ॥
मार्गेषु मां रक्षतु नीलकण्ठः शैलादिदुर्गेषु पुरत्रयारिः ।
अरण्यवासादि महाप्रवासे पायान्मृगव्याध उदारशक्तिः ॥
कल्पान्तकालोग्रपटुप्रकोप- स्फुटाट्टहासोच्चलिताण्डकोशः ।
घोरारिसेनार्णव दुर्निवार- महाभयाद्रक्षतु वीरभद्रः ॥
पत्त्यश्वमातङ्गरथावरूथिनी- सहस्रलक्षायुत कोटिभीषणम् ।
अक्षौहिणीनां शतमाततायिनां छिन्द्यान्मृडो घोरकुठार धारया ॥
निहन्तु दस्यून्प्रलयानलार्चिः ज्वलत्त्रिशूलं त्रिपुरान्तकस्य । शार्दूलसिंहर्क्षवृकादिहिंस्रान् सन्त्रासयत्वीशधनुः पिनाकः ॥
दुः स्वप्न दुः शकुन दुर्गति दौर्मनस्य- दुर्भिक्ष दुर्व्यसन दुःसह दुर्यशांसि । उत्पाततापविषभीतिमसद्ग्रहार्तिं व्याधींश्च नाशयतु मे जगतामधीशः ॥
ॐ नमो भगवते सदाशिवाय
सकलतत्वात्मकाय सर्वमन्त्रस्वरूपाय सर्वयन्त्राधिष्ठिताय सर्वतन्त्रस्वरूपाय सर्वतत्वविदूराय ब्रह्मरुद्रावतारिणे नीलकण्ठाय पार्वतीमनोहरप्रियाय सोमसूर्याग्निलोचनाय भस्मोद्धूलितविग्रहाय महामणि मुकुटधारणाय माणिक्यभूषणाय सृष्टिस्थितिप्रलयकाल- रौद्रावताराय दक्षाध्वरध्वंसकाय महाकालभेदनाय मूलधारैकनिलयाय तत्वातीताय गङ्गाधराय सर्वदेवादिदेवाय षडाश्रयाय वेदान्तसाराय त्रिवर्गसाधनाय अनन्तकोटिब्रह्माण्डनायकाय अनन्त वासुकि तक्षक- कर्कोटक शङ्ख कुलिक- पद्म महापद्मेति- अष्टमहानागकुलभूषणाय प्रणवस्वरूपाय चिदाकाशाय आकाश दिक् स्वरूपाय ग्रहनक्षत्रमालिने सकलाय कलङ्करहिताय सकललोकैककर्त्रे सकललोकैकभर्त्रे सकललोकैकसंहर्त्रे सकललोकैकगुरवे सकललोकैकसाक्षिणे सकलनिगमगुह्याय सकलवेदान्तपारगाय सकललोकैकवरप्रदाय सकललोकैकशङ्कराय सकलदुरितार्तिभञ्जनाय सकलजगदभयङ्कराय शशाङ्कशेखराय शाश्वतनिजावासाय निराकाराय निराभासाय निरामयाय निर्मलाय निर्मदाय निश्चिन्ताय निरहङ्काराय निरङ्कुशाय निष्कलङ्काय निर्गुणाय निष्कामाय निरूपप्लवाय निरुपद्रवाय निरवद्याय निरन्तराय निष्कारणाय निरातङ्काय निष्प्रपञ्चाय निस्सङ्गाय निर्द्वन्द्वाय निराधाराय नीरागाय निष्क्रोधाय निर्लोपाय निष्पापाय निर्भयाय निर्विकल्पाय निर्भेदाय निष्क्रियाय निस्तुलाय निःसंशयाय निरञ्जनाय निरुपमविभवाय नित्यशुद्धबुद्धमुक्तपरिपूर्ण- सच्चिदानन्दाद्वयाय परमशान्तस्वरूपाय परमशान्तप्रकाशाय तेजोरूपाय तेजोमयाय तेजो‌உधिपतये जय जय रुद्र महारुद्र महारौद्र भद्रावतार महाभैरव कालभैरव कल्पान्तभैरव कपालमालाधर खट्वाङ्ग चर्मखड्गधर पाशाङ्कुश- डमरूशूल चापबाणगदाशक्तिभिन्दिपाल- तोमर मुसल मुद्गर पाश परिघ- भुशुण्डी शतघ्नी चक्राद्यायुधभीषणाकार- सहस्रमुखदंष्ट्राकरालवदन विकटाट्टहास विस्फारित ब्रह्माण्डमण्डल नागेन्द्रकुण्डल नागेन्द्रहार नागेन्द्रवलय नागेन्द्रचर्मधर नागेन्द्रनिकेतन मृत्युञ्जय त्र्यम्बक त्रिपुरान्तक विश्वरूप विरूपाक्ष विश्वेश्वर वृषभवाहन विषविभूषण विश्वतोमुख सर्वतोमुख मां रक्ष रक्ष ज्वलज्वल प्रज्वल प्रज्वल महामृत्युभयं शमय शमय अपमृत्युभयं नाशय नाशय रोगभयम् उत्सादयोत्सादय विषसर्पभयं शमय शमय चोरान् मारय मारय मम शत्रून् उच्चाटयोच्चाटय त्रिशूलेन विदारय विदारय कुठारेण भिन्धि भिन्धि खड्गेन छिन्द्दि छिन्द्दि खट्वाङ्गेन विपोधय विपोधय मुसलेन निष्पेषय निष्पेषय बाणैः सन्ताडय सन्ताडय यक्ष रक्षांसि भीषय भीषय अशेष भूतान् विद्रावय विद्रावय कूष्माण्डभूतवेतालमारीगण- ब्रह्मराक्षसगणान् सन्त्रासय सन्त्रासय मम अभयं कुरु कुरु मम पापं शोधय शोधय वित्रस्तं माम् आश्वासय आश्वासय नरकमहाभयान् माम् उद्धर उद्धर अमृतकटाक्षवीक्षणेन मां- आलोकय आलोकय सञ्जीवय सञ्जीवय क्षुत्तृष्णार्तं माम् आप्यायय आप्यायय दुःखातुरं माम् आनन्दय आनन्दय शिवकवचेन माम् आच्छादय आच्छादय
हर हर मृत्युञ्जय त्र्यम्बक सदाशिव परमशिव नमस्ते नमस्ते नमः ॥
पूर्ववत् – हृदयादि न्यासः ।
पञ्चपूजा ॥
भूर्भुवस्सुवरोमिति दिग्विमोकः ॥
फलश्रुतिः%ऋषभ उवाच इत्येतत्परमं शैवं कवचं व्याहृतं मया ।
सर्व बाधा प्रशमनं रहस्यं सर्व देहिनाम् ॥
यः सदा धारयेन्मर्त्यः शैवं कवचमुत्तमम् ।
न तस्य जायते कापि भयं शम्भोरनुग्रहात् ॥
क्षीणायुः प्राप्तमृत्युर्वा महारोगहतो‌உपि वा ।
सद्यः सुखमवाप्नोति दीर्घमायुश्च विन्दति ॥
सर्वदारिद्रयशमनं सौमाङ्गल्यविवर्धनम् ।
यो धत्ते कवचं शैवं स देवैरपि पूज्यते ॥
महापातकसङ्घातैर्मुच्यते चोपपातकैः ।
देहान्ते मुक्तिमाप्नोति शिववर्मानुभावतः ॥
त्वमपि श्रद्दया वत्स शैवं कवचमुत्तमम् ।
धारयस्व मया दत्तं सद्यः श्रेयो ह्यवाप्स्यसि ॥
श्रीसूत उवाच
इत्युक्त्वा ऋषभो योगी तस्मै पार्थिव सूनवे ।
ददौ शङ्खं महारावं खड्गं च अरिनिषूदनम् ॥
पुनश्च भस्म संमन्त्र्य तदङ्गं परितो‌உस्पृशत् ।
गजानां षट्सहस्रस्य त्रिगुणस्य बलं ददौ ॥
भस्मप्रभावात् सम्प्राप्तबलैश्वर्य धृति स्मृतिः ।
स राजपुत्रः शुशुभे शरदर्क इव श्रिया ॥
तमाह प्राञ्जलिं भूयः स योगी नृपनन्दनम् ।
एष खड्गो मया दत्तस्तपोमन्त्रानुभावतः ॥
शितधारमिमं खड्गं यस्मै दर्शयसे स्फुटम् ।
स सद्यो म्रियते शत्रुः साक्षान्मृत्युरपि स्वयम् ॥
अस्य शङ्खस्य निर्ह्रादं ये शृण्वन्ति तवाहिताः ।
ते मूर्च्छिताः पतिष्यन्ति न्यस्तशस्त्रा विचेतनाः ॥
खड्गशङ्खाविमौ दिव्यौ परसैन्यविनाशकौ ।
आत्मसैन्यस्वपक्षाणां शौर्यतेजोविवर्धनौ ॥
एतयोश्च प्रभावेन शैवेन कवचेन च ।
द्विषट्सहस्र नागानां बलेन महतापि च ॥
भस्मधारण सामर्थ्याच्छत्रुसैन्यं विजेष्यसे ।
प्राप्य सिंहासनं पित्र्यं गोप्ता‌உसि पृथिवीमिमाम् ॥
इति भद्रायुषं सम्यगनुशास्य समातृकम् ।
ताभ्यां सम्पूजितः सो‌உथ योगी स्वैरगतिर्ययौ ॥
इति श्रीस्कान्दमहापुराणे ब्रह्मोत्तरखण्डे शिवकवच प्रभाव वर्णनं नाम द्वादशो‌உध्यायः सम्पूर्णः ॥ ॥

https://youtu.be/u-LRV_o8lV0


shiva kavacham.h

asya shrI shivakavacha stotramahAmantrasya
R^ishhabhayogIshvara R^ishhiH .
anushhTup.h chhandaH .
shrIsAmbasadAshivo devatA .

oM bIjam .
namaH shaktiH .
shivAyeti kIlakam.h .
mama sAmbasadAshivaprItyarthe japeviniyogaH .

(karanyAsaH )
oM sadAshivAya a.ngushhThAbhyA.n namaH .
naM ga.ngAdharAya tarjanIbhyA.n namaH .
maM mR^ityuJNjayAya madhyamAbhyA.n namaH .
shiM shUlapANaye anAmikAbhyA.n namaH .
vAM pinAkapANaye kanishhThikAbhyA.n namaH .
yaM umApataye karatalakarapR^ishhThAbhyA.n namaH .

(hR^idayAdi a.nganyAsaH )
oM sadAshivAya hR^idayAya namaH .
naM ga.ngAdharAya shirasesvAhA .
maM mR^ityuJNjayAya shikhAyaivashhaT.h .
shiM shUlapANaye kavachAya huM .
vAM pinAkapANaye netratrayAya vaushhaT.h .
yaM umApataye astrAyaphaT.h .
bhUrbhuvassuvaromiti digbandhaH ..

(dhyAnam.h )
vajradaMshTraM trinayanaM kAlakaNTha mari.ndamam.h .
sahasrakaramatyugraM vande shaMbhu mumApatim.h ..

rudrAxakaN^kaNalasa tkaradaNDayugmaH
   pAlAntarAlasitabhasmadhR^itatripuNDraH .
paJNchAxaraM paripaThan varamantrarAjaM
   dhyAyan sadA pashupatiM sharaNaM vrajethAH ..

ataH paraM sarvapurANaguhyaM
   niHsheshhapApaughaharaM pavitram.h .
jayapradaM sarvavipatpramochanaM
   vaxyAmi shaivam kavachaM hitAya te ..

(paJNchapUjA )
laM pR^ithivyAtmane gandhaM samarpayAmi .
haM AkAshAtmane pushhpaiH pUjayAmi .
yaM vAyvAtmane dhUpamAghrApayAmi .
raM agnyAtmane dIpaMdarshayAmi .
vaM amR^itAtmane amR^itaM mahA naivedyam.h nivedayAmi .
saM sarvAtmane sarvopachArapUjAM samarpayAmi ..

(mantraH )
R^ishhabha uvAcha 
namaskR^itya mahAdevaM vishva vyApina mIshvaram.h .
vaxye shivamayam varma sarva raxAkaraM nR^iNAm.h ..

shuchau deshe samAsIno yathAvatkalpitAsanaH .
jitendriyo jitaprANashchintayechchhivamavyayam.h ..

hR^itpuNDarIkAntarasa.nnivishhTaM
   svatejasA vyAptanabho.avakAsham.h .
atIndriyaM sUxma manantamAdyaM
   dhyAyEt.h parAnandamayaM mahesham.h ..

dhyAnAvadhUtAkhilakarmabandha-
   shchiraM chidAnanda nimagnachetAH .
shhaDaxaranyAsa samAhitAtmA
   shaivena kuryAtkavachena raxAm.h ..

mAM pAtu devo.akhiladevatAtmA
   saMsArakUpe patitaM gabhIre .
tannAma divyaM paramantramUlaM
   dhunotu me sarvamaghaM hR^idistham.h ..

sarvatra mAM raxatu vishvamUrti-
   rjyotirmayAnandaghanashchidAtmA .
aNoraNiyAnurushaktirekaH
   sa IshvaraH pAtu bhayAdasheshhAt.h ..

yo bhUsvarUpeNa bibharti vishvaM
   pAyAtsa bhUmergirisho.ashhtamUrtiH .
yo.apAM svarUpeNa nR^iNAM karoti
   sa.njIvanaM so.avatu mAM jalebhyaH ..

kalpAvasAne bhuvanAni dagdhvA
   sarvANi yo nR^ityati bhUrilIlaH .
sa kAlarudro.avatu mAM davAgneH
   vAtyAdibhIte rakhilAchcha tApAt.h ..

pradIptavidyutkanakAvabhAso
   vidyAvarAbhIti kuThArapANiH .
chaturmukhastatpurushhastrinetraH
   prAchyAM sthito raxatu mAmajasram.h ..

kuThArakheTAN^kusha shUlaDhakkA-
   kapAlapAshAxa guNAndadhAnaH .
chaturmukho nIlaruchistrinetraH
   pAyAdaghoro dishi daxiNasyAm.h ..

kundendushaN^kha sphaTikAvabhAso
   vedAxamAlA varadAbhayAN^kaH .
tryaxashchaturvaktra uruprabhAvaH
   sadyo.adhijAto.avatu mAM pratIchyAm.h ..

varAxamAlAbhaya TaN^kahastaH
   saroja kiJNjalka samAnavarNaH .
trilochanashchAruchaturmukho mAM
   pAyAdudIchyAM dishi vAmadevaH ..

vedAbhayeshhTAN^kusha TaN^kapAsha-
   kapAlaDhakkAxarashUlapANiH .
sitadyutiH paJNchamukho.avatAnmAM
   IshAna UrdhvaM paramaprakAshaH ..

mUrdhAnamavyA nmama chandramauliH
   phAlaM mamAvyAdatha phAlanetraH .
netre mamAvyA dbhaganetrahArI
   nAsAM sadA raxati vishvanAthaH ..

pAyAchhrutI me shrutigItakIrtiH
   kapolamavyA tsatataM kapAlI .
vaktraM sadA raxatu paJNchavaktro
   jihvAM sadA raxatu vedajihvaH ..

kaNThaM girIsho.avatu nIlakaNThaH
   pANidvayaM pAtu pinAkapANiH .
dormUlamavyAnmama dharmabAhuH
   vaxaH sthalaM daxamakhAntako.avyAt.h ..

mamodaraM pAtu girIndradhanvA
   madhyaM mamAvyA nmadanAntakArI .
herambatAto mama pAtu nAbhiM
   pAyAtkaTiM dhUrjaTirIshvaro me ..

UrudvayaM pAtu kuberamitro
   jAnudvayaM me jagadIshvaro.avyAt.h .
jaN^ghAyugaM puN^gavaketuravyAt.h
   pAdau mamAvyA tsuravandyapAdaH ..

maheshvaraH pAtu dinAdiyAme
   mAM madhyayAme.avatu vAmadevaH .
trilochanaH pAtu tR^itIyayAme
   vR^ishhadhvajaH pAtu dinAntyayAme ..

pAyAnnishAdau shashishekharo mAM
   gaN^gAdharo raxatu mAM nishIthe .
gaurIpatiH pAtu nishAvasAne
   mR^ityu.njayo raxatu sarvakAlam.h ..

antaHsthitaM raxatu sha.nkaro mAM
   sthANuH sadA pAtu bahiHsthitaM mAm.h .
tadantare pAtu patiH pashUnAM
   sadAshivo raxatu mAM samantAt.h ..

tishhThantamavyAd.h bhuvanaikanAthaH
   pAyAdvrajantaM pramathAdhinAthaH .
vedAntavedyo.avatu mAM nishhaNNaM
   mAmavyayH pAtu shivaH shayAnam.h ..

mArgeshhu mAM raxatu nIlakaNThaH
   shailAdidurgeshhu puratrayAriH .
araNyavAsAdi mahApravAse
   pAyAnmR^igavyAdha udArashaktiH ..

kalpAntakAlograpaTuprakopa-
  sphuTATTahAsochchalitANDakoshaH .
ghorArisenArNava durnivAra-
  mahAbhayA draxatu vIrabhadraH ..

pattyashvamAtaN^garathAvarUthinI-
   sahasralaxAyuta koTibhIshhaNam.h .
akshauhiNInAM shatamAtatAyinAM
   chhindyAnmR^iDo ghorakuThAra dhArayA ..

nihantu dasyUnpralayAnalArchiH
   jvalattrishUlaM tripurAntakasya .
shArdUlasiMharxavR^ikAdihiMsrAn.h
   sa.ntrAsaya tvIshadhanuH pinAkaH ..

duH svapna duH shakuna durgati daurmanasya-
   durbhixa durvyasana duH saha duryashAMsi .
utpAtatApavishhabhItimasad.hgrahArtiM
   vyAdhIMshcha nAshayatu me jagatAmadhIshaH ..


oM namo bhagavate sadAshivAya , sakalatatvAtmakAya , sarvamantrasvarUpAya ,
sarvayantrAdhishhThitAya , sarvatantrasvarUpAya  sarvatatvavidUrAya ,
brahmarudrAvatAriNe , nIlakaNThAya , pArvatImanoharapriyAya
somasUryAgnilochanAya bhasmoddUlita vigrahAya , mahAmaNi mukuTadhAraNAya ,
mANikyabhUshhaNAya , sR^ishTisthiti pralayakAlaraudrAvatArAya ,
daxAdhvaradhvaMsakAya , mahAkAla bhedanAya , mUladhAraikanilayAya ,
tatvAtItAya , ga.ngAdharAya , sarvadevAdidevAya , DAshrayAya , vedAntasArAya
, trivargasAdhanAya , anantakoTi brahmANDanAyakAya , ananta , vAsuki ,
taxaka , kArkoTaka , shaN^kha kulika , padma , mahApadmeti ashhTamahAnAga
kulabhUshhaNAya , praNavasvarUpAya , chidAkAshAya , AkAsha , dik.h svarUpAya
, grahanaxatramAline , sakalAya , kalaN^karahitAya , sakalalokaikakartre
, sakalalokaikabhartre , sakalalokaikasaMhartre , sakalalokaikagurave ,
sakalalokaikasAxiNe sakalanigamaguhyAya sakala vedAnta pAragAya ,
sakalalokaikavarapradAya , sakalalokaikasha.nkarAya
sakaladuritArtibhaJNjanAya , sakalajagadabhaya.nkarAya , shashAN^kashekharAya
, shAshvatanijAvAsAya , nirAkArAya , nirAbhAsAya , nirAmayAya , nirmalAya ,
nirmadAya , nishchintAya , niraha.nkArAya , nira.nkushAya , nishhkalaN^kAya
, nirguNAya , nishhkAmAya , nirUpaplavAya , niravadyAya , nirantarAya ,
nishhkAraNAya , nirAta.nkAya nishhprapaJNchAya , nissaN^gAya , nirdvandvAya
, nirAdhArAya , nIrAgAya , nishhkrodhAya , nirlopAya , nishhpApAya ,
nirbhayAya , nirvikalpAya , nirbhedAya , nishhkriyAya , nistulAya ,
nissaMshayAya , nira.njanAya , nirupamavibhavAya ,
nityashuddabuddamuktaparipUrNasachchidAnandAdvayAya , paramshAnatasvarUpAya
, paramashAntaprakAshAya , tejorUpAya , tejomayAya , tejo.adhipataye , jaya
jaya rudra mahArudra , mahAraudra , bhadrAvatAra , mahAbhairava ,
kAlabhairava , kalpAntabhairava , kapAlamAlAdhara , khaT.hvAN^ga 
charmakhaDgadhara , pAshAN^kusha Damaru trishUla chApa bANa gadA shakti
bhiNDi vAla tomara musala bhushuNThi mud.hgara pAsha parighashataghnI
chakrAdyAyudhabhIshhaNAkAra , sahasramukha , daMshhTrAkarAlavadana 
vikaTATTahAsa visphAritabrahmANDamaNDala , nAgendrakuNDala , nAgendrahAra ,
nAgendravalaya , nAgendracharmadhara , nAgendraniketana , mR^ityuJNjaya ,
tryambaka , tripurAntaka , vishvarUpa , virUpAxa , vishveshvara ,
vR^ishhabhavAhana , vishhabhUshhaNa , vishvatomukha , sarvatomukha , mAM
raxaraxa , jvala jvala , prajvala prajvala , mahAmR^ityubhayaM ,
shamaya shamaya apamR^ityubhayaM , nAshaya nAshaya , rogabhayaM
utsAdayotsAdaya , vishhasarpabhayaM shamaya shamaya , chorAn mAraya mAraya ,
mama shatrUn.h uchchATayochchATaya , trishUlene vidAraya vidAraya ,
kuThArene bhindhi bhindhi , khaDgena chhinddi chhinddi , khaTvAN^gena
vipodhaya vipodhaya , mama pApaM shodhaya shodhaya , musalena nishhpeshhaya
nishhpeshhaya , bANaiH sa.ntADaya sa.ntADaya , yaxa raxAMsi bhIshhaya
bhIshhaya , asheshha bhUtAn.h vidrAvaya vidrAvaya ,
kUshhmANDabhUtavetAlamArIgaNabrahmarAxasagaNAn.h sa.ntrAsaya sa.ntrAsaya
, mama abhayaM kuru kuru , narakbhayAnmAM uddara uddara , vitrastaM mAM
AshvAsaya AshvAsaya , amR^itakaTAxavIxaNena mAM Alokaya Alokaya ,
sa.njIvaya sa.njIvaya , xuttR^ishhNArtaM mAM ApyAyaya ApyAyaya , 
duHkhAturaM mAM Anandaya Anandaya , shivakavachena mAM AchchhAdaya
AchchhAdaya , hara hara , mR^ityu.njaya , tryambaka , sadAshiva , paramashiva
, namaste namaste namaH ..

        pUrvavat.h - hR^idayAdi nyAsaH . paJNchapUjA ..
        bhUrbhuvassuvaromiti digvimokaH ..

(phala shrutiH )
R^ishhabha uvAcha -
ityetatparamaM shaivaM kavachaM vyAhR^itaM mayA .
sarva bAdhA prashamanaM rahasyaM sarva dehinAm.h ..

yaH sadA dhArayenmartyaH shaivaM kavachamuttamam.h .
na tasya jAyate kvApi bhayaM shaMbhoranugrahAt.h ..

xINAyuH prAptamR^ityurvA mahArogahato.api vA .
sadyaH sukhamavApnoti dIrghamAyushcha vindati ..

sarvadAridrayashamanaM saumAN^galyavivardhanam.h .
yo dhatte kavachaM shaivaM sa devairapi pUjyate ..

mahApAtakasaN^ghanAtairmuchyate chopapAtakaiH .
dehAnte muktimApnoti shivavarmAnubhAvataH ..

tvamapi shraddayA vatsa shaivaM kavachamuttamam.h .
dhArayasva mayA dattaM sadyaH shreyo hyavApsyasi ..

shrIsUta uvAcha -
ityuktvA R^ishhabho yogI tasmai pArthiva sUnave .
dadau shaN^khaM mahArAvaM khaDgaM cha arinishhUdanam.h ..

punashcha bhasma sa.nmantrya tadaN^gaM parito.aspR^ishat.h .
gajAnAM shhaTsahasrasya dviguNasya balaM dadau ..

bhasmaprabhAvAt.h saMprAptabalaishvarya dhR^iti smR^itiH .
sa rAjaputraH shushubhe sharadarka iva shriyA ..

tamAha prAJNjaliM bhUyaH sa yogI nR^ipanandanam.h .
eshha khaDgo mayA dattastapomantrAnubhAvataH ..

shitadhAramimaM khaDgaM yasmai darshayasi sphuTam.h .
sa sadyo mriyate shatruH sAxAnmR^ityurapi svayam.h ..

asya shaN^khasya nirhrAdaM ye shR^iNvanti  tavAhitAH .
te mUrchchhitAH patishhyanti nyastashastrA vichetanAH ..

khaDgashaN^khAvimau divyau parasainyavinAshakau .
AtmasainyasvapaxANAM shauryatejovivardhanau ..

etayoshcha prabhAvena shaivena kavachena cha .
dvishhaTsahasra nAgAnAM balena mahatApi cha ..

bhasmadhAraNa sAmarthyAchchhatrusainyaM vijeshhyase .
prApya siMhAsanaM pitryaM goptAsi pR^ithivImimAm.h ..

iti bhadrAyushhaM samyaganushAsya samAtR^ikam.h .
tAbhyAM saMpUjitaH so.atha yogI svairagatiryayau ..

(iti shrIskAnde mahApurANe brahmottarakhaNDe shivakavacha prabhAva 
varNanaM nAma dvAdasho.adhyAyaH saMpUrNaH .. )
 
====
 
https://youtu.be/SGDxCBKUmZ4
 



Shiva Kavacham
(Armour of Shiva)

By
Sage Rishabha

Translated by

P.R.Ramachander

(Rishbha (deva) was born as a king in the family of Swayambhuva manu.  He married Meru devi and had one hundred children,. When they grew up, he entrusted the kingdom to his eldest son and retired to the forest. He became a great sage and a great devotee of Lord Shiva. He met in the forest a prince called Bhadraayu, who was driven out from his kingdom along with his mother by his enemies. Rishabha deva taught him the Shivakavacha, using which Bhadarayu regained his king dom. This story forms a part of Skanda purana   This Kavacham (armour) addressed to Lord Shiva is unique and very important.)



Asya Shiva Kavacha stotr maha manthrasya
Brahma rishi, Anushtup Chanda, Sri Sada shiva rudro devatha, Hreem Shakthi , Ram keelakam , Sreem, hreem, Kleem Bheejam
Sri Sada shiva preethyarthe  Shiva kavacha stotra  Jape Viniyoga.

For the great chant of Shiva’s armour,
The sage is Brahma,  the meter is Anushtup, The god addressed is Sada Shiva Rudra , the strength is “hreem”, the nail is “ram”,and the root is “Sreem, hreem , kleem.”
The Shiva Kavacha is being chanted to please Lord Sada Shiva.

( Another version:-
Asya sree Shiva Kavacha stotra maha manthrasya
Rishabha Yogeeswara rishi,
Anushtup Chanda, Sri Samba sada shivo devatha, Om Bheejam Nama Shakthi , Shivayethi keelakam Mama Samba sada shiva preethyarthe viniyoga.

For the great chant of Shiva’s armour,
The sage is Rishabha muni, meter is anushtup, The god addressed is sAmba Sada Shiva ,
Root is “om”, the nail is “shiva” and
This is being chanted to please my God Samba sada shiva.)

Adha nyasa
Om namo bhagawathe jwala jwaala maline
   Om hraam sarva shakthi daamne  eesanathmane angushtabhyam nama.

Om salutations to the dazzling and shining God, Om Hraam God who gives all powers,
Oh soul of God , salutations by  the thumb.

Om namo bhagawathe jwala jwaala maline
   Om nam rim  nithya thruptha dhamne  thath purushatmane tharjaneebhyam nama.

Om salutations to the dazzling and shining God, Om Nam Rim who grants perennial satisfaction , Oh soul of Purusgha, salutations by the forefinger

Om namo bhagawathe jwala jwaala maline
    Om nam rum anadhi shakthi dhamne aghorathmane madhyamabhyam nama,

Om salutations to the dazzling and shining God, Om Nam Rum, who gives the power of the ancient, the soul of Aghora  salutations by the middle finger.

Om namo bhagawathe jwala jwaala maline
  Om shim raim swthanthra shakthi dhamne vamadevathmane anamikabhyam nama.

Om salutations to the dazzling and shining God, Om Shim raim , one who gives independent power  and the soul of Vama deva  salutations by the ring finger


Om namo bhagawathe jwala jwaala maline
    Om vam roum aluptha shakthi dhamne  sadhyojathmane kanishtikabhya nama.

Om salutations to the dazzling and shining God, Om vam roum  , he who grants strength of aluptha, the soul of SAdhyojadha, salutations by the little finger.

Om namo bhagawathe jwala jwaala maline
    Om yam ra anadhi shakthi dhamne sarvathmane  kara thala kara prushtabhya nama.

Om salutations to the dazzling and shining God ,Om tam ra  he who he grants primeval power , soul of all salutations by palm and back side of hand.

Yevam Hrudhayadhi.nyasa adha dhyanam

After Telling like this , do meditation.

( Another version
Kara nyasa
   Om Sada shivaaya angushtabhyam nama
   Nam Gangadharaya tharjaneebhyam nama
   Mam mruthyunjayaya madhyamabhyam nama
   Shim sollapanaya anamikabhyam nama
   Vaam Pinaka panay kanishtikabhyam nama
   Yam umapathaye Kara thala kara prushtabhyam nama

Om salutations to Sadashiva by the thumb
Nam Salutations to Gangadhara by the fore finger
Bam salutations to victor over death by the middle finger
Shim salutations to he who holds iron rod by the ring finger
Vaam salutations to he who holds Pinaka by  the little finger
Yam salutations to consort of Uma  and the palm and back of the palm.

Hrudaya nyasa
   Om Sada shivaaya hrudayaya  nama
   Nam Gangadharaya Shirase swaha
   Mam mruthyunjayaya shikayayai vashat
   Shim sollapanaye kavachaya hoom
   Vaam Pinaka panaye nethra thrayaya voushat
   Yam umapathaye asthraya phat
Om ithi Digbandha

Om salutations to the heart of Sadashiva
Nam salutations to the head of he who carries Ganga
Mam salutations to the tuft of he who won over death
Shim salutations to he who holds iron rod   and the armour
Vaam salutations to he who holds the Pinaka’s eyes
Yamm salutations to the arrow of consort of Uma
Thus you tie yourself up with directions)

Adha Dhyanam
Then meditation

Vajra damshtram trinayanam kala kanda marindhamam,
Sahasrakara mathyugam, vande Shambhum umapathim.                               1

I salute Shambu the consort of Parvathi,
Who has diamond like teeth  and three eyes,
Who has black neck and kills his enemies,
And who has thousands of  fearful hands.

Adhoparam sarva purana guhyam ,
Nissesha papougha haram  pavithram,
Jayapradham  Sarva vipath pramochanam,
Vakshyami shaivam kavacham hithaya they.                                                   2

For your benefit I would tell you the “armour of Shiva”,
Which is very secret among the Puranas,
Which is holy and  removes all the sins  that are committed,
Which leads to victory and prevents all dangers.


Pancha pooja:-
Five worships:-

Lam Pruthvyathmane Gandham samarpayami
Ham Akasathmane pushpam poojayami
Yam Vayvathmane dhoopam agrahayami
Ram Agneyathmane deepam darasayami
Vam amtuthathmane amrutham maha naivedyam nivedayami
Sam sarvathmane sarvopachara poojam samarpayami

Lam spirit of earth, I offer you sandal paste
Ham spirit of sky , I worship you with flowers
Yam Spirit of wind I salute you with smoke incense
Ram spirit of fire , I show you a lit lamp
Vam spirit of deathlessness , I offer you nectar
Sam spirit of all souls I am offering you comprehensive worship

Rishabha Uvacha:-
Rishabha said:-

Namskrythwa maha devam  viswa vyapeenameeswaram,
Vakshye Shiva mayam  varma sarva raksha karam nrunaam.                           3

After saluting the great God who is spread through out,
I would tell you the “armour of Shiva, which protects all men.

Suchou dese samaaseeno  yadavath kalpithasana,
Jithendriyo  jitha pranas chinthayeth shivamavyayam.                                      4

You should sit in a clean place ,
Assume the proper sitting position,
Win over your senses , control your desires,
And meditate on Shiva who is forever stable.

Hruth pundarikaantha sannivishtam,
Swatheja  saavyaaptha nabhovakasam,
Atheendriyam sookshmamananthamadhyam,
Dyayeth parananda mayam mahesam.                                                                  5

I meditate on the great lord , who is full eternal joy,
Who lives in the lotus of one’s heart,
Whose innate luster spreads all over the sky,
And who is beyond  the senses and is  micro and  also end and beginning less.

Dhyannavadhoothakhila karma bandha,
Schiram chidwananda  nimagna chetha,
Shadakshara nyasa  samahithathma,
SAivena kuryath kavachena rakshaam.                                                                6

By deep meditation cutting off the ties of Karma,
For a long time and getting drowned in the divine joy,
With chant of the six letter mantra of Lord Shiva,
You have to protect your self with Shiva’s armour.

Maam pathu devo akhila devathathma,
Samsara koope pathitham gabheere,
Thannama divyam paramanthra moolam,
Dhunothu may sarvamagham hrudhistham.                                                          7

May I,  be saved by The God of all devas,
From this deep chasm called domestic life,
And his sacred divine names ,
Which are the basis of all great mantras,
Destroy all the sins in my heart.

Sarvathra maam rakshathu viswa moorthir,
Jyothir mayananda ghanaschidathma,
Anoraniyanuru shathireka,
Sa iswara pathu bhayad aseshath.                                                                           8

Let me be protected everywhere by the Lord of the universe,
Who is full of the light of happiness, who is the divine soul,
Let the God ,who is micro among micros, who is all powerful,
Protect me completely from all sort of fears.

Yo bhoo swaroopena bhibharthi viswam,
Paayath sa bhoomer gireeso ashta moorthi,
Yopaam swaroopena nrunaam karothi,
SAnjeevanam sovathu maam jalebhya.                                                                     9

Let him who in the form of earth looks after the earth,
Look after me from,  the fear of land related issues,
Let him who gives life to all beings in the form of water,
Protect me from everything concerning water.

Kalpavasane bhuvanaani dhagdwa ,
Sarvaani yo nruthyathi  bhoori leela,
SA  kala rudhro vathu maam davagner,
Vathyadhi bheethorakhilascha  thapath.                                                                 10

Let the death like Kala Rudhra , who dances,
At the end of ages after burning the universe.
With playfulness protect me from problems.
Created  by  forest fire and cyclone.

Pradheeptha vidhyuth kanakava bhaso,
Vidhya vara bheethi kutara pani,
Chathurmukha sthath purushasthri nethra,
Prachyam sthitham rakshathu mamajasram.                                                             11

Let him who shines like gold and the glittering lightning,
Who holds in his hand symbols of knowledge, boon, protection and sword,
And who has four faces  and three eyes,
Be in the east and protect me there.

Katara vedhamkusa pasa soola,
Kapala  dakkaksha gunaan dhadhaana,
Chathurmukho  neela  ruchistrinethra,
Payadghoro  disi dakshinasyam.                                                                                12

Let Aghora who holds the sword , Vedas , goad , rope, trident,
Skull , drum  and Rudraksha in his eight hands,
And who is blue in colour and has four faces,
Protect  me from the southern side.

Kundendu sankha  sphatikaava bhaso,
Vedaksha mala  varada bhayanka,
Triksha  chatur vakthra  uru prabhava,
SAdhyodhi jatho  aavathu maam pratheechyam.                                                        `13

Let him who shines  white like jasmine , moon . conch  and crystal,
Who holds Veda, chain of beads , protection  and boon in his hands,
And who shines with  three eyes and four necks,
And who is called Adhijatha* protect me from the west.
                * Born in the beginning

Varaksha mala abhaya tanga hastha ,
Saroja kinjathka samana varna,
Trilochanas charu  chaturmukho,
Maam payad udechyam disa vama deva.                                                                     14

Let him who holds  chain of beads and axe in his hand,
And shows sign  of boons, protection by his other hands,
Who is of the colour of the tendrils of lotus flower,
And who has three eyes and four heads,
And is called Vama deva  protect me from north.

Veda abhayeshtangusa pasa tanga ,
Kapala dakkakshaka soola pani.
Sithadhyuthi pancha mukhova,
Thwnmaeesana  oordhwam parama prakasa.                                                             15

Let him who is holding Veda goad , rope , axe , Skull, Rudraksha
And hatchet in his hands and showing signs of protection by one hand,
Who is of white colour and who has five faces and is shining,
And is called Eesana murthi protect me from above.

Moordhana mavyanmamam chandra mouli ,
Phalam mamavyadhadha  phala nethra,
Nethremamaavyadh bhaga nethra haaree,
Naasam  sada rakshathu Viswanadha.                                                                        16

Let him  who has moon on his head protect my head,
Let him  who has eyes on his forehead protect my forehead,
Let the destroyer with Sun as eyes protect my eyes,
And let Lord of the universe protect my nose.

Payachsruthirmay sruthi Geetha keethi,
Kapola mavyaathsa thatham kapali,
Vakthram sada rakshathu pancha vakthra,
Jihwam sada rakshathu veda jihwa.                                                                              17

Let my ears be protected by  him who is sung about by Vedas,
Let Kapali (God with skull) protect my cheeks,
Let the five necked one protect my neck,
And let the God with Veda as toungue protect my toungue.

Kandam gireesovathu Neela kanda,
Pani dhwayam pathu Pinaka pani,
Dhor mola mavyan mama dharma bahur,
Vaksha sthalam Daksha makhanda kovyath.                                                                 18

Let the Lord of mountain  with a blue neck protect my neck,
Let my both hands be protected by he who holds Pinaka bow,
Let the god having Dharma as hands protect my arm pits,
Let my bosom be protected , by him  who destroyed the yaga of Daksha,

Mamodharam pathu Gireendra dhanwa,
Madhyam mamaavyanmadanathakari,
Heramba thatho mama pathu nabhim,
Payath kateem doorjateeswaro may.                                                                                19

Let my belly be protected by him,  who made a bow out of the mountain,
Let my middle part be protected by him , who killed the God of love,
Let the father of Ganesa protect my navel,
And my hips be protected by him,  who has difficult plaited hair.

Oorudwayam padu kubheramithra,
Janu dhwayam may Jagadheeswaravyath,
Janga yugam pungava kethuravyath,
Padou mamavyath sura vandhya pada.                                                                              20

Let the friend of Kubhera* protect both my thighs,
Let both my knees be protected by Lord of universe,
Let my both calves be protected by he who rides a bull,
Let my feet be protected by he, whose feet is worshipped by devas.
                     *Lord of wealth

Maheswara pathu dhinadhi yame,
Maam madya yame  aavathu vama deva,
Trilochana  pathu thritheeya yame,
Vrusha dwaja padu dinandya yame.                                                                                  21

Let the great God protect me during the first quarter of the day,
Let Vama deva protect me during the second quarter of the day,
Let the three eyed one protect me during the third quarter of the day,
And let he who rides a bull protect me during the last quarter of the day

Paayan nisadhou sasi shekharo maam,
Gangadharo rakshathu maam niseedhe.
Gowripathi pathu nisavasane,
Mruthyunjaya  rakshathu sarva kalam.                                                                              22

Let him,  who wears the moon protect me during first part of night,
Let him,  who carries Ganga  protect me during the middle of the night,
Let the consort of Gowri protect me during last part of night,
Let the God who won over God of death protect me at all times.

Anthasthitham rakshathu Sankaro maam,
Sthsanu sadaa pathu bahi sthitham maam,
Thadanthare [athu pathi passonaam,
Sada shivo rakshathu sarva kalam.                                                                                    23

Let me protected when I am inside,  by Shankara,
Let Sthanu (stable one) protect me when I am outside,
Let the lord of all beings protect me when I am in between,
And Sada Shiva protect me all ways and at all times.

Thishtanthamavyath bhuvaanaika nadha,
Payad vrujantham pramadhathi nadha,
Vedantha vedhyovathu  maam nishannam,
Mamavyaya pathu Shiva sayaanaam.                                                                               24

Let the lord of  all the worlds protect me when I am standing,
Let the lord of Pramadhas protect me when I am walking,
Let the Lord studied by Vedantha protect me when I am sitting,
And let Lord Shiva protect me when I am lying down.

Margeshu maam rakshathu neelakanda,
Shailadhi durgeshu purathrayari,
Aranya vasadhi maha pravase,
Payad mruga vyadha  udhara shakthi.                                                                                25

Let the blue necked one protect me when I am on my way,
Let the destroyer of three towns protect me when I am in mountain or forts,
Let him, who lives in the forest protect me during journey
Let the hunter of deers who is extremely strong protect my strength of digestion.

 Kalpantha katopa patu prakopa,
Sphutattahasochali thanda kosa.
Ghorari senarnava dur nivara,
Maha bhayad rakshathu Veera bhadhra.                                                                            26

Let me be protected from the great fear,
Due to the attack of the army of enemies,
By Veerabhadra  who burns , like the fire of deluge,
And who due to his anger turns the universe up and down.

Pathyaswa mathanga ghatavaroopa,
SAhasra lakshayutha  koti bheeshanam,
Akshouhineenaam satha matha thayinam,
Chindhyan mrudo ghora kutaradharaya.                                                                            27

Let Mruda break with the terrible white axe,
The innumerable army of the enemies,
Which consists of several formations,
Of soldiers and  horses, elephant and chariot borne troops.

Nihanthu dasyun pralayanalarchir,
Jwalath trisoolam  tripuranthakasya,
Saardhoola  simaraksha vrukaadi himsraan,
Santhraasaya thweesa dhanu pinaka.                                                                                 28

Let the trident of the God who destroyed the three cities,
Which burns like the fire of the deluge destroy my enemies.
Let the Pinaka bow of Lord Shiva drive away.
Tiger, lion , bear , wolf  and other wild animals.

Duswapna du shakuna  durgathi dourmanasya,
Durbiksha  durvyasana  dussaha dooryamsi,
Uthpatha thapa  visha bheethi ma sadgraharthi,
Vyadheemscha nasayathu may Jagatham adheesa.                                                       29

Let the Lord of the different worlds protect me from,
Bad dreams , bad omens , bad fate , bad conduct,
Famines, bad grief , unbearable bad fame,
And fear from comet , poison , effects of planets and diseases.

Om namo bhagwwathe , sad shivaya , sakala thathwathmakaya, sarva manthra swaroopaya, sarva Thathwa vidhooraya , brahma rudravatharine , neelakandaya , Parvathi manohara priyaya , soma suryagni lochanaya,

Om salutations to him who is God, eternal shiva, personification of all principles, personification of all holy chants , one who is far away from philosophy, one who takes the form of Brahma and Rudra, One who has blue neck, One who is dear to pretty Parvathi, One who has fire Sun and Moon as eyes,

Bhasmodhoolitha vigrahaya, maha mani makuta dharanaya, Manikhya bhooshanaya, Srushti sthithi  pralaya kala rouudhravatharaya, Daksha dwara dwamsakaya, Maha kala bhedanaya, moola dharaika nilayaya, Thathwatheethaya,

One who applies ash all over, one who wears the great gem studded crown, One who wears Manikhya(ruby)  as ornament, He who takes the angry form and does creation upkeep and destruction at deluge, he who destroyed the fire sacrifice of Daksha, He who broke the great God of death , He who stays in Mooladhara chakra , He who is above principles,

Gangadharaya , sarva devadhidevaya, shadasrayaya, vedantha saaraya , trivarga sadhanaya, Anantha koti brahmanda nayakaya,  Anantha Vasuki  Thaksha, karkodaka   Sankha  kulika, padma Maha padmayeshta  maha naga kula bhooshanaya,

He who carries the Ganga, He who is God to all devas, He who is the basis of the six adhara Chakras, He who leads to three types of fulfillment, He who is the chief of the endless billions of universes, He who wears ornaments of the eight great serpents viz Anantha, Vasuki, Thaksha, Karkodaka, SAnkha , Kulika , Padma and Mahapadma,

Pranava swaroopaya, chidakasaya,  Aakasa dik swaroopaya, Graha nakshatra maline, Sakalaya, Kalanka rahithaya, Sakala lokaika karthre, Sakala lokaika bharthre, Sakala lokaika samharthre,  SAkala lokaika gurave,  Sakala lokaika Sakshine,  Sakala nigama guhyaya,

He who is the form of “Om”, He who is the divine ether, He who is personification of sky and directions, He who wears stars and planets as Garlands, He who is everything, He who does not have any dark spot, He who creates all the world, He who manages all the worlds, He who destroys all the worlds, He who is the teacher of all the world, He who is a witness of all the world, He who is hiding in all reasoning,

Sakala Vedantha paaragaya, Sakala lokaika vara pradhaya, Sakala lokaika sankaraya, Sasanku shekaraya, Sasvatha nija vasaya, Nirabhasaya, niramayaaya, nirmalaya , nirlobhaya, nirmadhaya, nischinthaya, Nirahankaraya, Nirangusaya, Nishkalankaya,

He who is expert in all Vedas, He who gives boons to all the world, He who gives all good things to every one, He who has collected the moon, He who is perennially in existence, He who shines always. He who is pervaded in everything, He who is clean,
He who is generous, He who does not have exuberance, He who does not have pride, He who cannot be stopped, He who does not have anything bad,

   Nirgunaya, Nishkaamaya, Nirupaplavaya, Niravadhyaya, Nirantharaya, Nishkaranaya, Nirathangaya, Nishprapanchaya, Nissangaya, Nirdwandwaya, NIradharaya, Neeraagaya,
 Nishkrodhaya, Nirmoolaya, Nishpapaya, Nirbhayaya, Nivikalpaya, Nirbhedhaya, Nishkriyaya, Nisthoolaya, Nissamsayaya, Niranjanaya, Nirupamavibhavaya,

He who does not have any properties, He who does not have any desires, He who is separate from all dangers, He who is permanent, He who does not have any cause, He who does not have any worry, He who is different from the world, He who is not in any group, He who is not plural, He who does not have any basis, He does not have likes, He who is not angry, He who does not have any roots, He who is above all sins, He who is not afraid, He who is not bound by time, He who does not differentiate, He who is action less, He who is above all , He who does not have any doubts, He who is without stains, He who has matchless assets,

Nithya shudha budhi paripoorna sachidaanadadwayaya, Parama santha swaroopaya, Thejo roopaya, Thejomayaya,

He who is perennially  clean, completely wise , complete , divinely joyous and without second, He who is extremely peaceful, He who has a shining form, He who is full of light,

Jaya jaya Rudhra, Maha roudhra, bhadravathara, maha bhairava, Kala Bhairava, Kalpanthaka Bhairava, Kapala maladhara, Gadwanga, Gadga charma pasa angusa  Damaru soola Chapa Bana Gadha Shakthi Bindi pala thomara  musala mudgara, Pasa parigha  Bhoosundi  SAthagni Chakradhyaudha , Bheeshanakra  Sahasra Mukha Damshtra karala vadana,

Victory ,victory to Rudra, He who is very angry, He who protects, great Bhairava , The Bhairava at the time of deluge, He who wears garland of skulls, He who is armed with sword, He who is very fearsome armed with sword, Shield, rope, goad , drum , trident, arrow, mace, Shakthi , catapult, iron mace , iron pestle , stick of thorns, rope, iron beam, spear, and fire wheel, He who is extremely fearsome , he who has thousand faces, He who is fearsome face due to protruding teeth,

Vikatattahasa visamharitha  brahmanda mandala, nagendra kundala , nagendra hara, nagendra valaya, nagendra charma dhara, Mruthyunjaya, Tryambaka, Tripuranthaka, Viswaropa, Viroopaksha, Visweswara, Vrushabha vahana, Visha vibhooshana, Viswathomukha, 

He who due to his fearsome roar breaks the universe , He who wears the  king of snakes as ear stud, He who wears the snake king as garland, He who wears snake king as armlet, he who wears the skin of the snake king, He who has defeated the God of death, He who has three eyes, He who destroyed the three cities, He who has a form as big as universe, He who has fearsome slanted eyes, He who is the Lord of the universe, He who rides on the bull, He who wears poison as an ornament, he who has universe as face,

Sarvatho raksha raksha maam,
Jwala jwala maha mrutyu bhayam nasaya nasaya,
Chora bhayamuthsadaya muthsadaya,
Visha sarpa bhayam samaya samaya,
Choran marya maraya,
Shathroon uchadaya uchadaya,
Trisoolena vidharaya vidharaya,
Kutarena bhindi bhindi,
Gadgena chindi chindi,
Gadwangena vipodhaya vipodhaya,
Musalena nishpekshaya nishpekshaya,
Banai santhadaya santhadaya,
Rakshamsi bheeshaya bheeshaya,
Bhoothani vidhravaya vidhravaya,
Koosmanda Vetala  mareecha brahma rakshasa ganan santhrasaya santhrasaya,
Mam abhayam kuru kuru,
Vithrastham mam aaswasaya aaswasaya,
Naraka maha bhayan Maam udharoudhara,
SAnjeevaya sanjeevaya,
Kshuthrubhyam mamapyaya yapyaya,
Dukhathuram Maam Aananadanandaya,
Shiva kavache namaschadhaya yachadhaya,
Mruthyunjaya Trimbakka SAdashiva namasthe namasthe

Save , save me everywhere,
Shine , shine , destroy , destroy, the great fear of death,
Remove , remove the  fear of theft and robbery,
Put out, put out , the fear for snakes with poison,
Kill, kill thieves,,
Drive away, drive away my enemies,
Split, split with trident,
Kill , kill with white axe,
Cut , cut with the sword,
Hit , hit with the skull stick,
Powder, powder with the steel pestle,
Strike, strike with arrows,
Scare , scare Rakshasas,
Drive away drive devils,
Scare away scare away Koosmandas, Vetalas Mareechas and Brahma Rakshas (evil spirits)
Give me, give me protection,
Console , console , who am afraid,
Lift me up, lift me up from fear of hell, Keep me alive , keep me alive,
Save me,  save me from effects of hunger and thirst,
Make me who is sad happy,
Cover and protect me with armour of Shiva,
Hey victor over death, Thee eyed one , ever peaceful one , my salutations to you.

Poorva vath Hrudhayadhi nyasa, pancha pooja bhoorbuwaswarom ithi Dig vimoka

After wards after performing nyasa starting from the heart and performing the worship of five deities , you are getting free by chanting boo, bhuva , suva  …etc.

Phala Sruthi:-
Benefit of reading:-

Rishaba Uvacha:-
Rishabha said:-

Ithyedath kavacham shaivam varadam vyahrutham mayaa,
Sarva bhadha prasamanam , rahayam sarva dehinaam.                                    30

This protective armour of Lord Shiva as spoken by me ,
Removes all ills and bad things, and is secret for all beings.

Yasaada dharayen marthya saivam kavachamuthamam,
Na thasya jaayathe kwapi bhayam shambhoranugrahath.                                 31

That man who wears this greatly divine armour of Shiva,
Due to the blessing of Lord Shiva will never have any fear.

Ksheenayu praptha mruthyurva Maha roga gahathopivaa,
Sadya sukhamavapnothi , deergatuscha vindathi.                                            32

People whose life is about to be over,
Or the one nearing death,
Or the one who is afflicted by leprosy,
Would get rid of those problems,
And would be blessed with long life.

Sarva daridrya samanam soumagalya vardhanam,
Yo dathe kavacham saivam sa devairapi poojyathe.                                         33

If any one wears this armour,
Which removes all poverty,
And increases good luck,
He would be worshipped even by devas.

Maha pathaka sangathair muchyathe chopa pathakair,
Dehanthe mukthi maapnothi shiva varmanu bhavatha.                                        34

He with the greatness of the armour of Shiva,
Would be saved from great as well as minor sins,
And at death would be blessed with salvation.

Thwamapi sradhaya vathsa , shaivam kvachamuthamam,
Dharayaswa maya datham sadhya sreyohyavapsyasi.                                            35

Oh young man, you also wear this armour given by me,
And by wearing it you would see good things coming to you.

Sootha Uvacha:-
Sootha said:-

Ithyukthwa Rishabho yogi thasmai Parthiva soonave,
Dadhou Sankham Maharaavam Gadganchari nishoodhanam.                               36

Punascha basma sammanthrya thadangam parithosprusath,
Gajaanaam Shad sahasraya dwigunasya balam dadhou.                                        37

Telling thus the sage Rishabha  gave the son of the king,
A conch which makes loud noise and a sword which cuts well.

Then he applied the ash made divine by the chant all over him,
And gave him further the strength of 12000 elephants.

Basma prabhvad sampraptha balaiswaryadruthi smruthi,
Sa raja puthra shushubhe saradarka iva sriya.                                                         38

Due to the effect of the ash applied on his body,
The prince got strength, wealth , courage and memory,
And shined like the Sun of the autumn.

Thamaha pranjalim bhooya sa yogi nrupanandanam,
Yesh gadgo maya dathasthapo manthranubhavitha,                                                39

Then the sage told the prince saluting him,
This sword given by me has the strength ,
Of the holy chants as well meditative power.

Shitha dharamimam Gadgam yasmai darsaye sphutam,
Sa sadhyomriyathe shathru saaksad mruthyurapi swayam.                                    40

If you show and shake this very sharp sword.
The enemy who sees it would die immediately.

Asya shankhasya nirhradham ye srunwanthi thavahithaa,
They moorchithaa pathishyanthi nyastha shasthra vichethana.                               41

Those enemies who happen to hear the sound of this conch,
Would faint immediately and would fall down leaving all arms.

Gadga shankhavimou divyou para sainya vinasinou,
AAthma sainyasya pakshaanam sourya thejo vivardhanou.                                     42

This sword and conch which are divine destroy enemy’s army,
And bless one’s own army with bravery and great power.

Yethayoscha prabhavena shaivena kavachena cha,
Dwishat sahasra nagaanaam balena mahathapi cha.                                                  43

These along with the power of the armour of Shiva,
Has greater strength than 12000 elephants.

Basma dharana samarthyath shathru sainyam vijayishyasi,
Prapya simhasanam pithryam gopthasi prithveemimaam.                                          44

Due to these and by the strength given by the sacred ash,
You would regain the throne of your father and riule over earth.

Ithi bhadrayusham samyag anusasya samathrukam,
Thaabhyaam sampoojithaa sodha yogi swaira f=gather yayou.                                  45

Thus encouraging the prince called Bharayus,
Who was hearing these along with his mother,
The sage called Rishabha departed the way he wanted.

Ithi Sri Sanda purane Bramothara Kande, Shiva kavacha prabhava varnanam nama dwadasodhyayam samaptham

Thus ends the armour of Shiva which occurs in the twelfth Brahmothara chapter of Skanda purana which deals with the power of the armour of Shiva.

https://youtu.be/mavnfZhaYTs




No comments:

Post a Comment