Followers

Saturday, November 21, 2015

Sri Anjaneya Suprabhatam -(Hanuman stotra.25)



Sri Anjaneya Suprabhatam -(Hanuman stotra.25)


https://youtu.be/SsFbEDUSNsI

==

॥ श्रीमदाञ्जनेयसुप्रभातम् ॥

श्रीसीतारामाभ्यां नमः । श्रीमदाञ्जनेयाय नमः ।
अमलकनकवर्णं प्रज्वलत्पावकाक्षं सरसिजनिभवक्त्रं सर्वदा सुप्रसन्नम्
रणरचनसुगात्रं कुण्डलालङ्कृताङ्गं परजयकरवालं रामदूतं नमामि ॥

श्रीरामचन्द्रचरणाम्बुजमत्तभृङ्ग श्रीराममन्त्रजपशील भवाब्धिपोत
।
श्रीजानकीहृदयतापनिवारमूर्ते श्रीवीर धीर हनुमन् तव सुप्रभातम् ॥ १॥

श्रीरामदिव्यचरितामृतास्वादलोल श्रीरामकिङ्कर गुणाकर दीनबन्धो ।
श्रीरामभक्त जगदेकमहोग्रशौर्य श्रीवीर धीर हनुमन् तव सुप्रभातम् ॥ २॥

सुग्रीवमित्र कपिशेखर पुण्यमूर्ते सुग्रीवराघवसमागमदिव्यकीर्ते ।
सुग्रीवमन्त्रिवर शूरकुलाग्रगण्य श्रीवीर धीर हनुमन् तव सुप्रभातम् ॥ ३॥

भक्तार्तिभञ्जन दयाकर योगिवन्द्य श्रीकेसरीप्रियतनूज सुवर्णदेह ।
श्रीभास्करात्मजमनोऽम्बुजचञ्चरीक श्रीवीर धीर हनुमन् तव सुप्रभातम्॥ ४॥

श्रीमारुतप्रियतनूज महाबलाढ्य मैनाकवन्दितपदाम्बुज दण्डितारिन् ।
श्री उष्ट्रवाहन सुलक्षणलक्षिताङ्ग श्रीवीर धीर हनुमन् तव सुप्रभातम्॥ ५॥

पञ्चाननस्य भवभीतिहरस्य रामपादाब्जसेवनपरस्य परात्परस्य ।
श्री अञ्जनाप्रियसुतस्य सुविग्रहस्य श्रीवीर धीर हनुमन् तव सुप्रभातम्॥ ६॥

गन्धर्वयक्षभुजगाधिपकिन्नराश्च आदित्यविश्ववसुरुद्रसुरर्षिसङ्घाः ।
सङ्कीर्तयन्ति तव दिव्यसुनामपङ्क्तिं श्रीवीर धीर हनुमन् तव सुप्रभातम् ॥ ७॥

श्रीगौतमच्यवनतुम्बुरुनारदात्रिमैत्रेयव्यासजनकादिमहर्षिसङ्घाः ।
गायन्ति हर्षभरितास्तव दिव्यकीर्तिं श्रीवीर धीर हनुमन् तव सुप्रभातम् ॥ ८॥

भृङ्गावली च मकरन्दरसं पिबेद्यं कूजन्त्युदारमधुरं चरणायुधाश्च ।
देवालये घनगभीरसुशङ्खघोषः श्रीवीर धीर हनुमन् तव सुप्रभातम् ॥ ९॥

पम्पासरोवरसुपुण्यपवित्रतीर्थमादाय हेमकलशैश्च महर्षिसङ्घाः ।
तिष्ठन्ति त्वच्चरणपङ्कजसेवनार्थं श्रीवीर धीर हनुमन् तव सुप्रभातम् ॥ १०॥

श्रीसूर्यपुत्रप्रिय नाथ मनोज्ञमूर्ते वातात्मजात कपिवीर सुपिङ्गलाक्ष ।
सञ्जीवनाय रघुवीरसुभक्तवर्य श्रीवीर धीर हनुमन् तव सुप्रभातम् ॥ ११॥


No comments:

Post a Comment