Followers

Tuesday, November 24, 2015

Sri Anjaneya Gayathri Mantra(Hanuman stotra.28)



Sri Anjaneya Gayathri Mantra(Hanuman stotra.28)

(Sri hanuman gayatri)


https://youtu.be/xZ955vn12Q8
 
आञ्जनेय गायत्रि
ॐ आञ्जनेयाय विद्महे वायुपुत्राय धीमहि ।
तन्नो हनुमत् प्रचोदयात् ॥

==
॥ आञ्जनेय गायत्रि , ध्यानं , त्रिकाल वन्दनं ॥

श्री आञ्जनेय स्वामी परदेवताभ्यो नमः
ध्यानम्
उद्यदादित्य सङ्काशं उदार भुज विक्रमम् ।
कन्दर्प कोटि लावण्यं सर्व विद्या विशारदम् ॥

श्री राम हृदयानन्दं भक्त कल्प महीरुहम् ।
अभयं वरदं दोर्भ्यां कलये मारुतात्मजम् ॥

अञ्जनानन्दनं वीरं जानकी शोकनाशनम् ।
कपीशं अक्षहन्तारं वन्दे लङ्का भयङ्करम् ॥

आञ्जनेयं अतिपाटलाननं कञनाद्रि कमनीय विग्रहम् ।
पारिजात तरुमूल वासिनं भावयामि पवमान नन्दनम् ॥

उल्लङ्घ्य सिन्धोः सलिलं सलीलं यस्शोक वह्निं जनकात्मजाय ।
आदाय तेनैव ददाह लङ्कां नमामि तं प्रान्जलिराञ्जनेयं ॥

अतुलित बलधामं स्वर्ण शैलाभदेहम्
दनुजवन कृशानं ज्ञानिनां अग्रगण्यम् ।
सकल गुण निधानं वानराणां अधीशम्
रघुपति प्रिय भक्तं वात जातं नमामि ॥

गोश्पदीकृत वारशिं मशकीकृत राक्षसाम् ।
रामायण महामाला रत्नं वन्दे अनिलात्मजम् ॥

यत्र यत्र रघुनाथ कीर्तनं तत्र तत्र कृत मस्तकाञ्जलिम् ।
भाश्पवारि परिपूर्ण लोचनं मारुतिं नमत राक्षसान्तकम् ॥

अमिषीकृत मार्तन्दं गोश्पदीकृत सागरम् ।
तृणीकृत दशग्रीवं आञ्जनेयं नमाम्यहम् ॥

मनोजवं मारुत तुल्य वेगं
जितेन्द्रियं बुद्धिमतां वरिष्ठम् ।
वातात्मजं वानर यूथ मुख्यं
श्री रामदूतं शिरसा नमामि ॥



आञ्जनेय गायत्रि
ॐ आञ्जनेयाय विद्महे वायुपुत्राय धीमहि ।
तन्नो हनुमत् प्रचोदयात् ॥
==
https://youtu.be/NvC3Kr3rByo
 
==
https://youtu.be/HgJpB_Qukvk
 

No comments:

Post a Comment