Followers

Thursday, August 24, 2017

Ganesha Astothra Sata Nama Stothram (Ganesh stotra.57)

Ganesha Astothra Sata Nama Stothram (Ganesh stotra.57)



https://youtu.be/5KbJ0UO9OlE



॥ श्रीविघ्नेश्वराष्टोत्तर शतनामस्तोत्रम् ॥

विनायको विघ्नराजो गौरीपुत्रो गणेश्वरः ।
स्कंदाग्रजोव्ययः पूतो दक्षोऽध्यक्षो द्विजप्रियः ॥ १॥

अग्निगर्वच्छिद  इन्द्रश्रीप्रदः ।
वाणीप्रदोअः अव्ययः सर्वसिद्धिप्रदश्शर्वतनो शर्वरीप्रियः ॥ २॥

सर्वात्मकः सृष्टिकर्ता देवोनेकार्चितश्शिवः ।
शुद्धबुद्धि प्रियश्शांतो ब्रह्मचारी गजाननः ॥ ३॥

द्वैमात्रेयो मुनिस्तुत्यो भक्तविघ्नविनाशनः ।
एकदन्तश्छतुर्बाहुश्छतुरश्शक्तिसंयुतः ॥ ४॥

लम्बोदरश्शूर्पकर्णो हरर्ब्रह्म विदुत्तमः ।
कालो ग्रहपतिः कामी सोमसूर्याग्निलोचनः ॥ ५॥

पाशाङ्कुशधरश्चण्डो गुणातीतो निरञ्जनः ।
अकल्मषस्स्वयंसिद्धस्सिद्धार्चितः पदाम्बुजः ॥ ६॥

बीजपूरफलासक्तो वरदश्शाश्वतः कृतिः ।
द्विजप्रियो वीतभयो गदी चक्रीक्षुचापधृत् ॥ ७॥

श्रीदोज उत्पलकरः श्रीपतिः स्तुतिहर्षितः ।
कुलाद्रिभेत्ता जटिलः कलिकल्मषनाशनः ॥ ८॥

चन्द्रचूडामणिः कान्तः पापहारी समाहितः ।
अश्रितश्रीकरस्सौम्यो भक्तवांछितदायकः ॥ ९॥

शान्तः कैवल्यसुखदस्सच्चिदानन्द विग्रहः ।
ज्ञानी दयायुतो दांतो ब्रह्मद्वेषविवर्जितः ॥१०॥

प्रमत्तदैत्यभयदः श्रीकंथो विबुधेश्वरः ।
रामार्चितोविधिर्नागराजयज्ञोपवीतकः ॥११॥

स्थूलकंठः स्वयंकर्ता सामघोषप्रियः परः ।
स्थूलतुण्डोऽग्रणी धीरो वागीशस्सिद्धिदायकः ॥ १२॥

दूर्वाबिल्वप्रियोऽव्यक्तमूर्तिरद्भुतमूर्तिमान् ।
शैलेन्द्रतनुजोत्सङ्गखेलनोत्सुकमानसः ॥ १३॥

स्वलावण्यसुधासारो जितमन्मथविग्रहः ।
समस्तजगदाधारो मायी मूषकवाहनः ॥१४॥

हृष्टस्तुष्टः प्रसन्नात्मा सर्वसिद्धिप्रदायकः ।
अष्टोत्तरशतेनैवं नाम्नां विघ्नेश्वरं विभुं ॥ १५॥

तुष्टाव शंकरः पुत्रं त्रिपुरं हंतुमुत्यतः ।
यः पूजयेदनेनैव भक्त्या सिद्धिविनायकम् ॥१६॥

दूर्वादलैर्बिल्वपत्रैः पुष्पैर्वा चंदनाक्षतैः ।
सर्वान्कामानवाप्नोति सर्वविघ्नैः प्रमुच्यते ॥

No comments:

Post a Comment